Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 316
________________ प्रभावकचरिते परमस्मद्दिक्षायै भवतां स्वामिनस्तदा । उपविष्टः क्षितौ सिंहासनस्थं मां स पश्यतु ॥ १९३ ॥ एवं विसर्जितास्तेन यथावृत्तं व्यजिज्ञपत् । कविराजं नृपः प्राह तद्वाचातिचमत्कृतः ॥ १९४ ॥ विना जैनमुनीन् शान्तान् को न नामावलिप्तधीः । तारतम्याश्रिते ज्ञाने कोवकाशो मदस्य तत् ॥ १९५ ॥ द्रष्टव्यमिदमप्यस्य चेष्टितं कौतुकात्ततः । सश्रीपालस्ततो भूपोन्यदागच्छत्तदालये ॥ १९६ ॥ सिंहासनं स्वमद्राक्षीद्दिद्वद्वृन्दनिषेवितम् । मृगेन्द्रमिव दुर्धर्षे देवबोधं कवीश्वरम् ॥ १९७ ॥ दृढभक्त्या नमश्चक्रे राजा विनयवामनः । गुणपूर्ण सतां चित्ते नावकाशो मदस्य यत् ॥ १९८ ॥ प्रत्यक्षविश्वरूपं तं विश्वरूपवराशिषा | अभिनन्द्यावदत्पाणिसंज्ञयादर्शयद्भुवम् ॥ १९९ ॥ अत्रोपविश्यतां राजन् श्रुत्वेति क्ष्मापतिस्ततः । श्रीश्रीपालकृतं काव्यमुवाच प्रकटाक्षरम् ॥ २०० ॥ ‘यतः’-इहहि वसति मेरुः शेखरो भूधराणा मिह विनिहितभाराः सागराः सप्त चान्ये । इह महिपतिदम्भस्तम्भसंरम्भधीरम् ३०८ धरणितलमिहैव स्थानमस्मद्विधानाम् ॥ २०१ ॥ इत्युक्त्वा च प्रतीहारः पटास्तृतधरातले । उपाविशद्विशां नाथः प्रमाथो दोषविद्विषाम् ॥ २०२ ॥ पर्षदोनुचितः कोयमिति हस्तेन दर्शिते । कविराजे नृपोवादीदनादीनवगीर्भरः ॥ २०३ ॥ एकोहं विहितस्फीतप्रबन्धोऽयं कृतीश्वरः । कविराज इतिख्यातः श्रीपालो नाम भूमिभूः ॥ २०४ ॥ श्रीदुर्लभसरोराजस्तथा रुद्रमहालये । अनिर्वाच्यरसैः काव्यैः प्रशस्तीरकरोदसौ ॥ २०५ ॥ महाप्रबन्धचक्रेचे ( च ?) वैरोचनपराजयम् । विहस्य सद्भिरन्योपि नैवास्य तु किमुच्यते ॥ २०६ ॥ श्रुत्वेति स्मितमाधाय देवबोधकविर्जगौ । काव्यमेकं लसद्गर्वपर्वताधित्यकासमम् ॥ २०७ ॥ तथाहि शुक्रः कवित्वमापन्नः एकाक्षिविकलोपि सन् । चक्षुर्द्धयविहीनस्य युक्ता ते कविराजिता ॥ २०८ ॥

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358