Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 296
________________ २८८ प्रभावकचरिते श्रीदेवसूरयः प्राहुर्यदि ब्राह्मीप्रसादतः। न जयस्तत्किमुत्कोचैः संकोचैः सत्यसंविदाम् ॥ १५६ ॥ अथाह थाहडो नाथ शांबरेण धनव्ययात् । तत्रस्थेन धनाध्यक्षादशिता गांगिलादयः ॥ १५७ ॥ ऊचुश्च प्रभवो देवा गुरवश्चात्र जाग्रति ।। कार्योऽन्वयो न युष्माभिरस्थाने द्रविणस्य तत् ॥ १५८ ॥ ततः कुमुदचंद्रेणागतेन नगरांतरा। श्वेतांबरजयोन्नत्यै कृतं पत्रावलंबनम् ॥ १५९ ॥ दिनानां विशति प्रत्युपाश्रयं यतिनां तदा। नीरं तृणानि मुक्त्वा च सपुरोगान्यवादयत् ॥ १६०॥ केशवत्रितयं तस्य पक्षे सभ्यतया स्थितम् । अन्येऽप्यर्वाग्दशः सर्वे तस्य पक्षस्पृशोऽभवन् ॥ १६१ ॥ थाहडस्तस्य तत्रत्यं राजद्वारे विलंबितम् । स्फाटयामास शृंगारमिव तस्य जयश्रियः॥१६२॥ श्रीसिद्धाधीश्वरो राजा श्रीपालादधिगम्य च । वृत्तांतमाह्वयत्तत्र श्वेतांबरदिगंबरौ ॥ १६३ ॥ सभाव्यवस्थामाधाय प्रैषीदूतं च सत्वरम् । संबंधकावताराय तयोगौगिलमंत्रिणे ॥ १६४॥ ततः श्रीकरणे सोऽथ श्रीदेवगुरुराह्वयत् । जातिप्रत्ययतः किंचिद्विशिष्टमिव चावदत् ॥ १६५ ॥ तथाहि-दंतानां मलमंडलीपरिचयात्स्थूलं भविष्णुस्तुति श्रुत्वा भैक्षकपिंडभक्षणविधिं शौचं किलात्रात्मनः। नीरं साक्षिशरीरशुद्धिविषये येषामहो कौतुके तेऽपि श्वेतपटाः किमीश्वरपुरः कांक्षति जल्पोत्सवम् ॥१६६ आह देवगुरुः स्फूर्त्या मीमांसासक्तताजुषः। धीवराश्वोचितं तद्वः शौचाचारविचारणम् ॥ १६७ ।। परमुक्तं च-विमृशविमृशांभोभिः शक्योऽपसारयितुं नये र्जठरपिठरीक्रोडस्थेमाप्यहो मललेशकः। कथमिव सदा तिष्ठन्नात्मन्यरूपिणि तैरहो परिदलयितुं पार्यो नार्यः स पातककर्दमः ॥ १६८ ॥ माणिक्यः प्राह किनाम द्विजस्यास्यास्ति दूषणम् । श्रीसिद्धेश उपालभ्यः सविवेकबृहस्पतिः ॥१६९ ॥ संस्कारे सूत्रपालेन चतुर्दाहृदयात्मनाम्। वपुमेनोवचःकायं जनेष्वन्यान्यरूपतः॥१७०॥ १P लावाम्लतः H. चात्मत् ?

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358