Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 263
________________ श्रीसूराचार्यप्रबन्धः। २५५ चित्रमश्रुतपूर्व तदन्यत्पृच्छामि किंचन । मातुलस्य सुता गम्या यथास्ते दक्षिणापथे ॥ १५६ ॥ सुराष्ट्रायां भ्रातृजाया देवरस्य यथोचिता । भवद्देशे तथा गम्याऽनुजांगजवधूः कथम् ॥१५७ ॥ यद्वधूशब्दसामीप्ये मानसे रमतां मम । प्रयुक्तं तद्भवंत्येव देशाचाराः पृथग्विधाः ॥१५८॥ अनुत्तरं प्रतिहतश्चालयन्नन्यसंकथाः । कालं विलंबयामासेष्टानध्यायकृतादरः॥ १५९॥ संध्यावसरसंप्राप्तः श्रीभोजनृपतेः पुरः। अपराह्नेतिवृत्तं स जगौ विस्मयकारकम् ॥ १६०॥ भूपश्च विस्मितः प्राह संभाव्यं गुर्जरावनौ । इदं प्रातर्विलोक्योऽसौ विद्वानाहूय निश्चितम् ॥ १६१॥ तत्रस्थाचार्यपार्श्वे च भूपालः प्रैषयनरान् । आह्वातुमतिथिं तं च भक्तिपूर्व तमाह्वयत् ॥ १६२ ॥ ततश्चूडसरस्वत्याचार्येण सह स प्रभुः। ययौ श्रीभोजभूनाथसभां स्वर्गसभानिभाम् ॥ १६३॥ राज्ञा नृपांगणाग्रे च शिलैका निहिता तदा। गूर्जराने निजप्राणस्फूर्तिदर्शनहेतवे ॥ १६४ ॥ तत्र पूर्ण पुनश्छिद्रं प्रार विधाप्य विधाय च । तद्वर्णसमकल्केन तादृशोपि छलार्थिनः॥ १६५॥ युग्मम् । आगच्छन्तं तदालोक्य सूरीश्वरमिलापतिः। आकणे धनुराकृष्यामुचल्लक्षे दृशं दधन् ॥ १६६ ॥ सूराचार्यश्च सूक्ष्मक्षी कल्कालेपं तटस्थितम् । बाणाग्रोत्कीर्णमालोक्य गर्भार्थ काव्यमब्रवीत् ॥१६७॥ तथाहि । विद्धा विद्धा शिलेयं भवतु परमतः कामुर्कक्रीडितेन श्रीमत्पाषाणभेदव्यसनरसिकतां मुंच मुंच प्रसीद । वेधे कौतूहलं चेत्कुलशिखरिकुलं बाणलक्षीकरोषि ध्वस्ताधाराधरित्रीनृपतिलकतदायाति पातालमूलम्॥१६८॥ इत्थमद्भुतसामर्थ्यवर्णनात्तोषितो नृपः। अधृष्यप्रज्ञमेनं श्रीधनपालोपि बुद्धवान् ॥ १६९॥ व्यचिंतयच्च वुद्धिं च विज्ञानं भूपतेरियम्। गर्भितोक्तिरहो जैना जीयंते केन मेधया ॥ १७० ॥ निजाश्रयं ययौ श्रीमान् सूराचार्यों नृपार्चितः । राजा स्थानमथास्थाय समस्तविदुषो वदन् ॥ १७१ ॥ १D P. ते...यन् ।

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358