Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 7
________________ इन्द्राधा दशदिक्पाला, दशस्वपि दिशासु ते । राजन्ते यन्त्रमूले च, सूर्यादयो नव ग्रहाः ।।१३।। नवापि निघयः कण्ठे, नैसर्पिकादयः स्थिताः । सन्तु प्रत्यूहनाशाय, दिक्पालाः सपरिच्छदाः ।।१४।। इत्थं श्रीसिद्धचक्रं ये, सबीजे क्षोणिमण्डले । आराधयन्ति तेषां स्यु-वंशे सर्वार्थसिद्धयः ।।१५।। एतदेव परं तत्त्वमेतदेव परं पदम् । एतदाराध्यमेतच्च, रहस्यं जिनशासने ||१६|| सुगन्धैः कुसुमैः शालि-तन्दुलैर्वाऽस्य साधकाः। शुचिशीला ध्रुवं सिद्धिं, लभन्ते लक्षजापतः।।१७।। सिध्दे चास्मिन् महामन्त्रे, देवो विमलवाहनः। अधिष्ठाताऽस्य चक्रस्य, पूरयत्येव वांछितम् ।।१८।। शान्तिके पौष्टिके शुक्लं, वश्ये चाकर्षणेऽरूणम् । पीतं स्तम्भेऽसितं द्वेष्ये, ध्येयमेतच्च साधकैः ।।१९।। अर्हमात्मानमाँ अग्नि-शुद्ध मायाऽमृतप्लुतम् । सुधाकुम्मस्थमाकण्ठं, ध्यायेच्छान्तिककर्मणि ।।२०।। आह्वानं स्थापनं चैव, सन्निधानं च रोधनम् । अर्चनं च विधायात्र, ततः कार्यं विसर्जनम् ।।२१।। लेखनं पूजनं चैव, कुम्भकेनैव कारयेत् । आह्वानं पूरकेणैव, रेचकेन विसर्जनम् ।।२२।। एक-द्वि-त्रि-चतुः-पञ्च,- शतैरष्टोत्तरैः क्रमात् । स्याच्छिवास्याक्षिभूसङ्घय-, वर्णजापो महाफलः।।२३।। दिक्कालासनमुद्रादि-विधिपीयूषसेकतः । श्री सिद्धचक्रकल्पद्,-र्वाञ्छितं फलति ध्रुवम् ॥२४ ।। 3

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60