Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 55
________________ मारि-रोगोत्पातानीति-दुर्भिक्ष - डमर - विग्रह-ग्रह-भूत-प्रेत-पिशाच मुद्गल - शाकिनी - प्रभृति - दोषाः प्रशाम्यन्तु प्रशाम्यन्तु । राजा विजयी भवतु भवतु । प्रजा स्वास्थ्यं भवतु भवतु । श्रीसङ्घो विजयी भवतु भवतु । ॐ स्वाहा ॐ स्वाहा । भूः स्वाहा | भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । शिवमस्तु सर्वजगतः. परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ।।१।। सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।। २ ।। अपराधक्षामणम् : ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनञ्च यत् कृतम् । तत् सर्वं कृपया देवाः ! क्षमन्तु परमेश्वराः ।।१।। आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ।।२।। इत्यपराधक्षामणम् । त्रण खमासमण देवापूर्वक अपराधक्षामण करवुं । ।। अथ विसर्जनम् ।। विसर्जन मुद्राथी श्री सिद्धचक्राधिष्ठायक देवा देव्यश्च स्वस्थानं गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा । ।। इति श्रीसिद्धचक्रयन्त्रोद्वार पूजनविधिः ।। ૫૧

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60