Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 53
________________ यद् वश्यादिककारकं बहुविधं, कामार्थिनां कामदं, यल्लुक्षाधिकजापसिद्धविमलं, सत्सम्पदां दायकम् ।। यत् कुष्ठादिकदुष्टदोषदलनं, दुःखाभिभूतात्मनां, यत् तत्त्वैकफलप्रदं विजयतां श्रीसिद्धचक्रं भुवि ।। ५ ।। ऊर्ध्वाधोरफयुक्तं गगनमुपहतं बिन्दुनाऽनाहतेन, ह्रीँ कारेण प्रकृष्टं स्वरसुगुरूपदैर्वेष्टितं बाह्यदेशे ।। पद्म वर्गाष्टकाङ्कं दलमुखविवरेऽनाहताढ्यं तदित्थं, ह्रीँ कारेण त्रिवेष्टं कलशवलयितं सिद्धिदं सिद्धचक्रम् ||६|| व्योमोर्ध्वाधारयुक्तं शिरसि च विलसन् नादबिन्द्वर्धचन्द्रं, स्वाहान्ताँकारपूर्वैर्गुरुभिरभिवृतं सस्वरं चाष्टवर्गम् ।। अन्तस्थानाहतश्रीगणधरवलयालङ्कृतं ध्यानसाध्यं वन्दे श्रीसिद्धचक्रं सुरगणमहितं मायया त्रिः परीत्तम् ।।७।। यत् सर्वाङ्गिहितं मनुष्यमहितं सौख्यालयं धर्मिणां यद्दोषैः परिवर्जितं सुगदितं ध्यानाधिरूढाङ्कितम् । यत् कर्मक्षयकारकं सुधवलं मन्त्रधिपाधिष्टितं तन्नः पातु वरं भवाब्धिशमनं श्रीसिद्धचक्रं सदा ||८|| पछी आरति-मंगलदीवो उतारी, शान्तिकलश करे-भरे - शान्तिदंडक भणवापूर्वक । 9 ४८

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60