Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 51
________________ || श्रीसिद्धचक्रस्तवरूपस्तवनम् ।। मन्त्रमहोदधिममलं, स्तुत्या प्रणिपत्य सिद्धचक्राह्वम् । तद्यन्त्रस्यैव विधि, गणधर-रचितस्य वक्ष्येऽहम् ।।१।। ऊष्माक्षरं चतुर्थ, सप्तमवर्ग-द्वितीयवर्णेन । अध उपरि यदाक्रान्तं, सबिन्दु सकलं सदा ध्येयम् ।।२।। प्रणवादिबीजवर्ण-स्तत्तत्त्वं वलयितं समीपस्थम् । पञ्चनमस्कृत्यैतत्, सत्साधक-सिद्धिदं वन्दे ।।३।। प्रथमेऽथ ततो वलये, प्रसिद्ध-परमेष्ठिमन्त्र-पदतत्त्वम् । प्रत्येकं प्रणवाद्यं, ध्यायक-कल्पदुमं नौमि।।४।। प्रणौमि द्वितीयवलये, श्रीगणधर-सेवितं प्रभुत्वकरम् । पञ्चविधं स्वाचारं, सम्यग्ज्ञानाय नम आद्यम् ।। ५ ।। षोडशविद्यादेवी-स्तृतीयवलये स्मरामि वर्णमिषात् । पद्म बहिरष्टदलं दलान्तरेष्वष्टवर्गाश्च ॥६।। अष्टसु दलेषु बीजा-क्षराण्यनाहतप्रवर्तीनि । वर्गाश्च मातृकाया, ध्यायामोऽनाहतं चान्ते ।।७।। अथ रेखात्रयवृत्तं, तत्परिधौ चक्रमानम ॐ ह्रीं । अर्हत्-सिद्धगुरूणां, तथा च परमगुरोःसुकल्याणी।।८।। अद्दष्टानन्तयो-गुर्वो-रनन्तानन्त-सद्गुरोः । गणभृत्-सिद्धचक्रस्य, सबीजा-नाहतपादुकाः ॥९।। तस्मादथ रेखाद्वय-वृत्तं कलशानकारि सद्यन्त्रम | तन्मले ग्रहनवकं, विघ्नहरं भव्यसत्त्वानाम ||१०।। कुम्भस्य च स्थितान् कण्ठे, चिन्तयामि निधीन् नव । दिक्पालान् बहिरिन्द्राद्यान्, स्वस्वस्थान-स्थितान् वन्दे ।।११।। ततो लकारमूर्ध्वाध-स्तटयोरुभयोर्बहिः । सिद्धचक्रमिदं यन्त्रं, ध्यायतां कल्पितप्रदम् ।।१२।। ४७ स्तम्भे पीतं सितं शान्तौ, विद्वेषे धूमसन्निभम् । वश्ये रक्तं शिवेऽभ्राभं, खेचरत्वे मणिप्रभम् ।।१३।। ।। ज्ञात्वा गुरूमुखाद् ध्यानं षट्कर्मसु यथोचितम् । त्यजन् निन्धं भजन वन्धं, ध्याता कुर्यान्निरन्तरम् ।।१४।। जयवीजराय संपूर्ण कहेवा ।। इति देववन्दन ।।

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60