Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 9
________________ ||१|| શ્રી સિદ્ધચક્ર આરાધના માટેનો તપ, પૂજન કયાં દ્રવ્યોથી કરવું? તપનું ઉજમણું કેવી રીતે કરવું? તે દર્શાવતી.... चोवीशी बीजी श्रीमते सिद्धचक्राद्य-बीजाय परमार्हते । नत्वा तत्पूर्वसेवाया-स्तपोविधिरथोच्यते आश्विनस्य सिताष्टम्यां, निर्दोषायां यथाविधि। कृत्वा श्रीसिद्धचक्रार्चा-माद्याचाम्लो विधीयते ।।२।। ततश्चाष्टाह्निकोत्सवं, कृत्वाऽऽशु नवमे दिने । कृते पञ्चामृतस्नात्रे, ह्याचाम्लो नवमो भवेत् ।।३।। एवं चैत्रे नवाचाम्ला, भवन्त्येव निरन्तराः । ततोऽर्धपञ्चवर्षेषु, सम्पूर्ण पूर्यते तपः ।। एकाशीति भवत्येव - माचाम्लानामिहाथवा । अशक्तैरेकभक्ताना - मेकाशीति विधीयते ।।५।। इत्थं श्रीसिद्धचक्रस्य, तपः कृत्वा ह्युपासकै :। कार्यमुद्यापनं तस्य, यथाशक्त्या विवेकिभिः ।।६।। मण्डलं सिद्धचक्रस्य, चैत्यादौ शुद्धभूतले । सन्मन्त्रपूतै : पञ्चाभ-धान्यैरालिख्यते स्फुटम् ।७।। तत्राहमिति बीजोर्ध्व-स्थापितप्रतिमाऽग्रतः। स्थाप्यं सन्नालिकेरस्य, सखण्डाज्योरूगोलकम् ।।८।। सिद्धाद्यष्टदलश्रेणि-रपि पूज्या च गौलकैः । शर्करालिङ्गकैरा, षोडशानाहतावलिः । ||९|| द्राक्षाश्चैकोनपञ्चाश - दष्टवर्गाक्षरोपरि । बीजपूराष्टकं सप्ता-क्षरमन्त्रेषु मण्डयेत् ||१०||

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60