Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
|| श्रीसिद्धचक्रस्तोत्रम् ।। (उपजातिच्छन्दः) ॐ हाँस्फुटानाहतमूलमन्त्रं, स्वरैः परीतं परितोऽस्ति सृष्टया। यत्राहमित्युज्ज्वलमाद्यबीजं, श्रीसिद्धचक्रं तदहं नमामि ।।१।। सिद्धादयो दिक्षु विदिक्षु सम्यग्-हग्-ज्ञान-चारित्र-तपः पदानि । साद्यन्तबीजानि जयन्ति यत्र, श्रीसिद्धचक्रं तदहं नमामि ।।२।। सानाहतं यत्र दलेषु वर्गा,-ष्टकं निविष्टं च तदन्तरेषु । सप्ताक्षरो राजति मन्त्रराजः, श्रीसिद्धचक्रं तदहं नमामि ।।३।। अनाहतव्याप्तदिगष्टके यत्, सल्लब्धिसिद्धषिपदावलीनाम् । त्रिपङ्क्तिभिः सृष्टितया परीतं, श्रीसिद्धचक्रं तदहं नमामि ।।४।। त्रिरेखमायापरिवेष्टतं यज्जयाद्यधिष्ठायकसेव्यमानम् । विराजते सद्गुरुपादुकाकं, श्रीसिद्धचक्रं तदहं नमामि।।५।। मूलग्रहं कण्ठनिधिं च पार्श्व, द्वयस्थयक्षादिगणं गुणज्ञैः । यद् ध्यायते श्रीकलशैकरूपं, श्रीसिद्धचक्रं तदहं नमामि ।।६।। सद्वाःस्थबीजं स्फुटबीजवीरं, सबीजदिक्पालमलं नृणां यत् । भूमण्डले ध्यातमभीष्टदायि. श्रीसिद्धचक्रं तदहं नमामि ।।७।। यत्रार्चिते यत्र नमस्कृते च. यत्र स्तुते यत्र नमस्कृते (पुरस्कृते) च । जना मनोवाञ्छितमाप्नुवन्ति. श्रीसिद्धचक्रं तदहं नमामि ।।८।। इत्यति त्रिदश-गोमणि-दुमो-द्यत्प्रभावपटलं शिवप्रदम् । अर्हदादि समलङ्कतं पदै :, सिद्धचक्र मिद मस्तु नः श्रिये ।।९।।(रथोद्धता)

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60