Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi Author(s): Maheshbhai F Sheth Publisher: Siddhachakra PrakashanPage 13
________________ एभ्यो नवपदेभ्योऽन्य-नास्ति तत्त्वं जिनागमे । ततो नवपदी ज्ञेया, सदा ध्येया च धीधनैः ।।१२।। ये सिद्धा ये च सेत्स्यन्ति, ये च सिध्यन्ति साम्प्रतम्। ते सर्वेऽपि समाराध्य, पदान्येतान्यहर्निशम् ।।१३।। त्रिधा शुद्धया समाराध्य, मे (चै) षामेकतरं पदम् । भुयांसोऽपि भवन्ति स्म, पदं राज्यादिसम्पदाम् ।।१४।। अस्याद्यपदमाराध्य, प्राप्ताः स्वामित्वमुत्तमम् । नरेषु देवपालाद्याः, कार्तिकाद्याः सुरेषु च ||१५|| द्वितीयपदमाराध्य, ध्यायन्तः पञ्चपाण्डवाः । सिद्धाचले समं कुन्त्या, संप्राप्ताः परमं पदम् ।।१६।। नास्तिकः कृतपापोऽपि, यत् प्रदेशी सुरोऽभवत् । तदस्यैव तृतीयस्य, पदस्योपकृतं महत् ।।१७।। चतुर्थपदमस्यैवा-राधयन्तो यथाविधि | धन्याः सूत्रमधीयन्ते, शिष्याः सिंहगिरेरिव ||१८|| विराध्याराध्य चैतस्य, पञ्चमं पदमेव हि । दुःखं सुखं च संप्राप्ता, रूक्मिणी चाथ रोहिणी ।।१९।। षष्ठं पदं च यैरस्य, निर्मलं कलितं सदा । कृष्ण-श्रेणिकमुख्यास्ते, श्लाघनीयाः सतामपि ।।२०।। सप्तमं पदमेतस्य, समाराध्य समाधितः । महाबुद्धिधना जाता, धन्या शीलमती सती ॥२१।। पदमस्याष्टमं सम्यग्, यदाराद्धं पुरादरात् । तत् श्रीजम्बुकुमारेण, सुखेनाप्तं शिवं पदम् ।।२२।। अस्यैव नवमं शुद्धं, पदमाराध्य सम्मदात् । वीरमत्या महासत्या, प्राप्तं सर्वोत्तमं फलम् ।।२३।। किं बहूक्तेन भो भव्या, अस्यैवाराधकैनरैः । तीर्थकृन्नामकर्माऽपि, हेलया समुपाय॑ते ।।४।।Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60