Book Title: Poojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 6
________________ શ્રી સિદ્ધચક્ર યંત્રનું આલેખન તથા આરાધનની વિધિ તથા તેનાથી થતો લાભ દર્શાવતી. चोवीशी पहेली * 11911 ।।२।। ।।३।। ।।४।। ।।५।। ।।६।। ॐ हँ नमः स्मृत्वा मूलमन्त्रमथार्हतः । वक्ष्ये श्री सिद्धचक्रस्य यन्त्रोद्धारं यथाविधि पद्ममष्टदलाकारं कल्पयेत् तत्र कर्णिकाम् । ॐ ह्रीँ अनाहतै र्वृतम्, अर्हं बीजं स्वरैर्वृतम् सिद्धाः पूर्वदले स्थाप्या, दक्षिणे सूरयस्तथा । पाठकाः स्युः प्रतीचीने, साधवस्तूत्तरे दले आग्नेये दर्शनं सम्यग्, ज्ञानञ्च, नैर्ऋत्ते दले । वायव्ये शुद्धचारित्र - मैशाने पल्लवे तपः नवपदमिदं पद्म-मद्वितीयं जगत्त्रये । परीतोऽस्य दलानि स्युः षोडशान्तरिते दले अष्टौ स्वरादयो वर्गा, मन्त्रः सप्ताक्षरस्तथा । वर्गाः सानाहता ज्ञेया, मन्त्रमूलं यतोऽक्षरम् अष्टावनाहताः स्थाप्या स्तृतीये वलये क्रमात् । मध्येऽनाहतमष्टाढया - श्चात्वारिंशच्च लब्धयः । । ७ ।। ह्रीँ कारेण त्रिरेखेण, वेष्टयेत् परीतः समम् । क्रोंकारान्तमिदं ज्ञेयं, वेष्टनं सर्वरक्षणम् ।।८।। परिधावस्य संस्थाप्या, अष्टौ गुर्वादिपादुकाः । आराध्योऽयं क्रमः पूर्णो, वक्ष्येऽथो यन्त्ररक्षकान् ।। ९ ।। स्थाप्या दिक्षु जयामुख्या, जम्भामुख्या विदिक्षु च । विमलवाहनाद्या: स्यु- र्देवताश्चक्ररक्षकाः ।।१०।। ततश्च वलये विद्या-देव्यः षोडश निर्मलाः । दक्षिणेऽतो विभागे स्यु-श्चतुर्विंशतिः यक्षपाः चतुर्विंशतिः यक्षिण्यो, वामपार्श्वे स्थिता वरम् । वीराश्च द्वारपालाश्च चतुर्दिक्षु शिवङ्कराः ।।११।। ।।१२।। ૨

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60