Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
१३. इन्दनिव्वाणगमणाहियारो
तो इन्दस्स भडा, पुरओ काऊण तं सहस्सारं । पत्ता रावणभवणं, पडिहारनिवेइओ दिट्ठो ॥१॥ काऊण सिरपणामं, उवविट्ठो आसणे समासन्ने । तो भणइ सहस्सारो, दहवयणं आयरतरेणं ॥२॥ जो तुझ पुरिसयारो, निव्वडिओ विक्कमो पयावो य । मुञ्चसु न किंचि कज्जं, इमेण इन्देण रुद्धेणं ॥ ३ ॥ भइ ओ दहवयणो, जइ मह लङ्काए कज्जवकयारं । फेडेहि अपरितन्तो, दियहे दियहे निययकालं ॥४॥ संमज्जिवलित्ता, काऊण मही इमाए नयरीए । कुसुमेहि अच्चियव्वा, सुरहिसुगन्धेहि दिव्वेहिं ॥५ ॥ एयारिसे निओगे, अज्जपभूइं महं जइ करेहि । मुञ्चामि तओ इन्दं, कत्तो पुण अन्नभेदेणं ? ॥६॥
रावण भणिओ, सलोगपालो तओ सहस्सारो । इन्दस्स मोयणट्टे, अह इच्छइ सव्वमेयं तु ॥७॥ लङ्काहिवेण मुक्को, इन्दो वरदाण-माण- विभवेणं । सम्माणिऊण भणिओ, अज्जपभूइं महं भाया ॥८॥ भुञ्जसु वेयढगिरिं, रहनेउपरचक्कवालनयरत्थो । इन्दिय - मणाभिरामं, अणुहवसु सुहं जहिच्छाए ॥९॥ भणिऊण एवमेयं, सहस्सारो सुरवईण संजुत्तो । पत्तो सलोगपालो, रहनेउरचक्कवालपुरं ॥१०॥ निययभवणं पविट्ठो, सक्को विज्जाहरेहि थुव्वन्तो । सेसा वि लोगपाला, सपुराइँ गया सपरिवारा ॥११॥
१३. इन्द्रनिर्वाणगमनाधिकारः
इत इन्द्रस्य भटाः पुरतः कृत्वा तं सहस्रारम् । प्राप्ता रावणभवनं प्रतिहारनिवेदितो दृष्टः ॥ १ ॥ कृत्वा शिरः प्रणाममुपविष्ट आसने समासन्ने । तदा भणति सहस्रारो दशवदनमादरतरेण ॥२॥ यस्तव पुरुषकारो निर्वर्तितो विक्रमः प्रतापश्च । मुञ्च न किंचित्कार्यमनेनेन्द्रेण रुद्धेन ॥३॥ भणति ततो दशवदनो यदि मम लङ्काया कचवरम् । स्फेटयत्यपरितान्तो दिवसे दिवसे नित्यकालम् ॥४॥ संमर्जितोपलिप्ता कृत्वा महीमस्यां नगर्याम् । कुसुमैरचितव्या सुरभिसुगन्धै दिव्यैः ॥५॥ एतादृशान्नियोगानद्यप्रभृति मम यदि करिष्यति । मुञ्चामि तत इन्द्रं कुतः पुनरन्यभेदेन ? ॥६॥ यद्रावणेन भणितः सलोकपालस्ततः सहस्रारः । इन्द्रस्य मोचनार्थेऽथेच्छति सर्वमेतत्तु ॥७॥ लङ्काधिपेन मुक्त इन्द्र वरदान - मान - विभवेन । सन्मान्य भणितोऽद्यप्रभृतिर्मम भ्राता ॥८॥ भुङ्क्ष्व वैताढ्यगिरिं रथनूपूरचक्रवालनगरस्थ: । इन्द्रियमनोऽभिराममनुभवसुखं यथेच्छया ॥९॥ भणित्वेवमेतत्सहस्रारः सुरपतिना संयुक्तः । प्राप्तः सलोकपालो रथनूपूरचक्रवालपुरम् ॥१०॥ निजभवने प्रविष्टः शक्रो विद्याधरैः स्तुवन् । शेषा अपि लोकपालाः स्वपुराणि गताः सपरिवाराः ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226