Book Title: Paumchariyam Part 01
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
१६७
अणंतविरियधम्मकहणाहियारो-१४/६१-८६ कोहो माणो माया, लोभो रागो य दोससंजुत्तो । एए निरम्भियव्वा, देहे मलीणा महासत्तू ॥७३॥ । अणसणमूणोयरिया, वित्तीसंखेव कायपरिपीडा । रसपरिचागो य तहा, विवित्तसयणासणं चेव ॥७४॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं चिय उस्सग्गो, तवो य अन्भिन्तरो एसो ॥७५॥ एसो बारसभेओ, होइ तवो जिणवरेहि उवइट्ठो । कम्मट्ठनिज्जरटुं, करेन्ति समणा समियपावा ॥७६॥ देहे वि निरवयक्खा, निरहंकारा जिइन्दिया धीरा । बारसअणुपेक्खासु य, निययं भावेन्ति अप्पाणं ॥७७॥ वासी-चम्दणसरिसा, मन्नन्ति सुहं तहेव दुक्खं वा । जत्थत्थमियनिवासी, सीहा इव निब्भया समणा ॥७८॥ धरणी विव सव्वसहा, पवणो इव सव्वसङ्गपरिमुक्का । गयणं व निम्मलमणा, गम्भीरा सायरं चेव ॥७९॥ सोमा निसायरं पिव, तेएण दिवायरं व दिप्पन्ता । मेरु व्व धीरगरुया, विहगा इव सङ्गपरिहीणा ॥८०॥ अट्ठारस य सहस्सा, सीलङ्गाणं धरेन्ति सप्पुरिसा । चिन्तेन्ता परमपयं, विहरन्ति अणाउला समणा ॥८१॥ उप्पन्नरिद्धि-विहवा, जिणवरधम्मेण साहवो धीरा । तवसिरिविहूसियङ्गा, अब्भुयकम्माणि कुव्वन्ति ॥८२॥ केएत्थ दियसनाहं, नित्तेयं तक्खणेण कुव्वन्ति । उच्छाइऊणचन्दं, केई मेह व्व वरिसन्ति ॥८३॥ चालेन्ति मन्दरगिरिं, नभेण वच्चन्ति पवणसमवेगा । चलणरएण मुणिवरा, पसमेन्ति अणेयवाहीओ ॥८४॥ महु-खीर-सप्पिसविणो, अमयस्सविणो य कोट्ठबुद्धी य । केई पयाणुसारी, अवरे संभिन्नसोया य ॥८५॥ एवंविहा य समणा, कालं काऊण निययजोगेणं । ठाणाई देवलोए, पावेन्ति सिवालयं केइ ॥८६॥
क्रोधो मानो माया लोभो रागश्च द्वेषसंयुक्तः । एते निरुम्भितव्या देहे लीना महाशत्रवः ।।७३|| अनशनमूनोदरी वृत्तिसंक्षेपः कायपरिपीडा । रसपरित्यागश्च तथा विविक्तशय्यासनमेव ॥७४॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानं चैवोत्सर्गस्तपश्चाभ्यन्तर एषः ।।७५॥ एष द्वादशभेदो भवति तपो जिनवरैरुपदिष्टम् । कर्माष्टनिर्जरार्थं कुर्वन्ति श्रमणाः समितपापाः ॥७६।। देहेऽपि निरपेक्षा निरहंकारा जितेन्द्रिया धीराः । द्वादशानुप्रेक्षाभिश्च नित्यं भावयन्त्यात्मानम् ॥७७।। वासी-चन्दन सदृशा मन्यन्ते सुखं तथैव दु:खं वा । यथास्तमितनिवासिनः सिंहा इव निर्भयाः श्रमणाः ॥७८|| धरणीव सर्वंसहा: पवन इव सर्वसङ्गपरिमुक्ताः । गगनमिव निर्मलमनसो गम्भीराः सागरमिव ॥७९॥ सौम्या निशाकरमिव तेजसा दिवाकरमिव दीप्यमानाः । मेरुरिव धीरगुरुका विहगा इव सङ्गपरिहीणाः ॥८०॥ अष्टादश च सहस्रं शीलाङ्गानां धरन्ति सत्पुरुषाः । चिन्तयन्तः परमपदं विहरन्त्यनाकूलाः श्रमणाः ।।८१।। उत्पन्नद्धिविभवा जिनवरधर्मेण साधवो धीराः । तपः श्रीविभूषिताङ्गा अद्भूतकर्माणि कुर्वन्ति ॥८२॥ केचिदिवसनाथं निस्तेजं तत्क्षणेन कुर्वन्ति । उच्छाल्य चन्द्रं केऽपि मेघ इव वर्षन्ति ॥८३।। चालयन्ति मन्दरगिरि नभसा गच्छन्ति पवनसमवेगाः । चरणरजसा मुनिवराः प्रशमयन्त्यनेकव्याधीन् ।।८४।। मधु-क्षीर-सर्पिःस्रविणोऽमृतस्रविणश्च कोष्टबुद्ध्यश्च । केऽपि पदानुसारिणोऽपरे संभिन्नस्रोताश्च ॥८५।। एवंविधाश्च श्रमणाः कालं कृत्वा निजकयोगेन । स्थानानि देवलोके प्राप्नुवन्ति शिवालयं केऽपि ॥८६।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226