Book Title: Nyayavatara Author(s): Manikyasagarsuri Publisher: Agmoddharak Granthmala View full book textPage 5
________________ पूज्य-आगमोद्धारकाचार्यविहितवृत्तिसनाथस्य श्रुतधराऽऽास्थविर-श्रीसिद्धसेनदिवाकरविरचित श्रीन्यायावतारग्रन्थस्य अवतरसिका परमाप्तत्वाभिसन्धिजविशिष्टबुद्धिसदानुगुण्यविभ्राजि - शेमुषीधनानां सद्गुरुचरणसमुपास्तिपूतकुशेशयानुसारिसुगुणकरकमलेषूपदीक्रियमाण सत्तर्ककर्कशधियामपि स्याद्वादनिकषोपल-- मन्तरा मतिवैभवस्य सकलशास्त्रपारीणत्वसम्पत्तरकृतार्थत्वसंसूचनाय वचोविधिविरचने छल-जाप्ति-वितण्डा-हेत्वाभास-परस्परविरोधाघातत्वादिदोषराहित्यसम्पत्तये च न्यायशास्त्राभिधया प्रामाण्यविनिश्वायकशास्त्राणां छन्दोवृत्तिनिग्रहार्थमनन्यथासिद्धमहत्त्वं ख्यापयदिदं यथार्थाभिधान श्रीन्यायावतारसूत्रं महामतिप्रखरतार्किकशिरोमणिसुरम्यविविधभावभङ्गीगर्भकवनकलानिपुणैः श्रीसिद्धसेनदिवाकरपादैः प्रथितं कुशाग्रातिनिशितधीमतामपि बहुव्यामोहकमासीत् तदर्थविवेचकवृत्तेः दुरूहार्थ काठिन्यप्रस्तुतसन्दर्भसङ्गतिमूलकानेकपदार्थानामनवगमकत्वादिहेतुना। ततश्वोपयोगिनोऽप्यस्य पठनादिक दुरूहं समीक्ष्यागमपारदृश्वभिः तात्त्विकविचारधौरेयैः सच्छ तज्ञानाव्यवच्छित्तिगुणगरिमोद्भासकैराचार्यवयः बहुश्रुतसत्तमैः श्रीआनन्दसागरसूरीशपादःशासनानुगुणानेकभव्यजनहितकारिप्रवृत्तिशालित्वेऽपि भव्यजनानुजिघृक्षया सुन्दरसुविशदनैकदार्शनिकपदार्थानामस्वारस्योद्भावन-प्रामाण्यव्य -Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 180