Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 270
________________ स्तोत्र ] ॥ १२ ॥ शुद्धस्फटिकसङ्काशः, स्वयम्भूः परमाच्युतः । व्योमाकारस्वरूपश्व, लोकालोकावभासकः ज्ञानात्मा परमानन्दः, प्राणारूढो मनःस्थितिः । मनः साध्यो मनोध्येयो, मनोदृश्यः परापरः ॥ १३ ॥ सर्वतीर्थमयो नित्यः सर्वदेवमयः प्रभुः । भगवान् सर्वतवेशः, शिवश्रीसौख्यदायकः ॥ १४ ॥ इतिश्रीपार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः । दिव्यमष्टोत्तरं नाम, शतमत्र प्रकीर्तितम् पवित्रं परमं ध्येयं, परमानन्ददायकम् । मुक्तिमुक्तिप्रदं नित्यं पठते मङ्गलप्रदम् श्रीमत्परमकल्याण-सिद्धिदः श्रेयसेऽस्तु वः । पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः ।। १७ ।। घरणेन्द्रफणच्छत्रालङ्कृतो वः श्रियं प्रभुः । ॥ १५ ॥ ॥। १६ ।। ૫૭ ॥ १८ ॥ दद्यात् पद्मावतीदेव्या, समधिष्ठितशासनः ध्यायेत् कमलमध्यस्थं, श्रीपार्श्वजगदीश्वरं । ॐ ही श्रीः हः समायुक्तं, केवलज्ञानभास्करम् ।। १९ ।। पद्मावत्याऽन्वितं वामे, धरणेन्द्रेण दक्षिणे । परितोऽष्टदलस्थेन, मन्त्रराजेन संयुतम् अष्टपत्रस्थितैः पञ्चनमस्कारैस्तथा त्रिभिः । ज्ञानाद्यैर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् षोडशदलारूढं, विद्यादेवीभिरन्वितम् । चतुर्विंशविपत्रस्थं, जिनं मातृसमानृतम् 11 20 11 ॥ २१ ॥ ॥ २२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294