Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text ________________
-
-
-
-
-
૭૨
* [सिद्धिाय मसल एकैव षड्दर्शनहक्कनीनिका पुराणवेदागमजन्मभूमिका । मानन्दचिब्रह्ममयी सरस्वती सदेन्द्रभूतेश्वरणोपसेविनी ॥ ५ ॥ सदा चतुष्पष्टिसुरेन्द्रमानसव्यामोहिनी पाहदाधिवासिनी । सर्वाङ्गशृङ्गारतरङ्गितद्युतिः श्रीगौतमं श्रीरपि वन्दते त्रिधा ।।६।। जयाजयन्तीविजयापराजितानन्दासुभद्राप्रमुखः सुरीजनः । प्रतिक्षणोजागरभूरिविभ्रमः श्रीगौतम गायति गाढगौरवः ।। ७ ।। मानुषोत्तरगिरेः शिरःस्थिता दोःसहस्रसुभगा महाप्रभा । गीतगौतमगुणा त्रिविष्टपस्वामिनी शिवशतं दधातु मे ॥८॥ यक्षषोडशसहस्रनायको दिव्यविंशतिभुजो महाबलः।। द्वादशाङ्गसमयाधिदेवता गौतमस्मृतिजुषां शिवङ्करः ॥९॥ ईशाननाथेन समं शतक्रतुः सनत्कुमाराधिपतिः सुरान्वितः । श्रीब्रह्मलोकाधिपतिश्च सेवते स गौतम मन्त्रवरं पदे पदे ॥१०॥ अष्टनागकुलनायको मणिप्रोल्लसत्फणसहस्रभासुरः । गौतमाय धरणः कृताञ्जलिमन्त्रराजसहिताय वन्दते ॥ ११ ॥ रोहिणीप्रभृतयः सुराङ्गना वासवा अपि परे सदाश्रवाः । गौतम मनसि यक्षयक्षिणीश्रेणयोऽपि दधती मुनीश्वरम् ॥१२॥ सजलानधनमोगधृतीनां लब्धिरद्भुततमेहभवे स्यात् । गौतमस्मरणतः परलोके भूर्भुवःस्वरपवर्गसुखानि ॥१३ ॥ आँकौंत्रीही मन्त्रतो ध्यानकाले पार्श्वे कृत्वा प्राञ्जलिः सर्वदेवान्। कायोत्सर्गेधूपकर्पूरवासैः पूजां कुर्यात् सर्वदा ब्रह्मचारी ॥ १४ ॥ जितेन्द्रियः स्वल्पजलाभिषेकवान् शुद्धाम्बरो गुप्तिसमित्यलकृतः। श्रीइन्द्रमतेरुपर्वणवं गुणान् स्मरन्नरः स्याच्छूतसिन्धुपारगः॥१५॥ तं श्रयन्ति पुरुषार्थसिद्धयो भूभ्यते विशदसाहसेन सः । गौतमः प्रणयिभुक्तिमुक्तिदो यस्य भाविविभवस्य नायते ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294