Book Title: Munisuvrat Swami Charitra Sachitra
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Prachin Sahitya Sanshodhak Karyalay
View full book text ________________
સ્તોત્રસંગ્રહ ]
श्रीवीरनाथन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः,स गौतमो यच्छतु वाञ्छितं मे ।३। यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति मिक्षाभ्रमणस्य काले । मिष्टानपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ॥४॥ अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे।५। त्रिपञ्चसङ्ख्याशततापसानां, तपाकृशानामपुनर्भवाय । अक्षीणलब्ध्या परमानदाता, स गौतमो यच्छतु वाञ्छितं मे ।६। सदक्षिणं भोजनमेव देयं, साधर्मिक सङ्घसपर्ययेति । कैवल्यवस्त्रं प्रददौ मुनीनां, स गौतमो यच्छतु वाञ्छितं मे ।। शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहेव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं मे ।८। श्रीगौतमस्याष्टकमादरेण, प्रबोधकाले मुनि पुङ्गवा ये । पठन्ति ते म्ररिपदं च देवानन्दं लभन्ते नितरां क्रमेण ॥ ९ ॥
श्रीमन्त्राधिराजगर्भितश्रीगौतमस्वामीस्तवनम् नमोऽस्तु श्रीहीतिकीर्तिबुद्धिलक्ष्मीविलासैकनिकेतनाय । श्रीवीरपट्टाम्बरमास्कराय लोकोत्तमाय प्रभुगौतमाय ॥१॥
कारमक्षीणमहानसानां श्रीमन्समुज्जृम्भतपःप्रभावैः । होमन्तमात्मानुगवन्दनेनाऽहन्तं नमस्यामि तमिन्द्रभूतिम् ॥ २॥ उभिद्रसौवर्णसहस्रपत्रगर्मस्थसिंहासनसंनिषण्णम् । दिव्यातपत्रं परिवीज्यमानं सचामरैश्वाऽमररामसेव्यम् ॥३॥ कल्पद्रुचिन्तामणिकामधेनुसमाननामानममानशक्तिम् । भनेकलोकोसरलब्धिसिद्ध श्रीगौतमं धन्यतमाः स्मरन्ति ॥४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294