Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 10
________________ मृगांक 118 11 "सुख गयां सवि सासरइ पीहर टलीउं मान । कंतविंहूणी गोरडी जिंहा जाइ सिंहा रान ॥ ८६ ॥ हिडा ! झूर म मुष्टिकर झूरत नयणे हाणि । कवण सुणेस्यइ रानमां रोयुं कंठ पराण ॥ ८७ ॥ दैवें कीधां दूरि दोहिलं केतुं आणीइ । हीयडा करि संतोस करम सिख्यं फल पाईइ ॥ ८८ ॥ यतः - उदयति यदि भानुः पश्चिमायां दिशायां प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां, न चलति विधिवशानां भाविनी कर्म्मरेखा ॥ ८९ ॥ बभूव सावधाना सा प्रसरच्छीतवायुना । तदैव खाञ्चले दृष्ट्वा लेखान्वितकपर्दकान् ॥ ९० ॥ वाचयामास तल्लेखं पद्मावती वने स्थिता । प्रत्युवाचेति भर्त्तारं युक्तः कोपोऽत्र ते न भोः ! ॥ ९१ ॥ उत्तमैर्न कदा कार्य योषितां वनमोचनम् । विललाप स्थिता तत्र सीतेवाऽरण्यमध्यगा ॥ ९२ ॥ भवतु तव कल्याणं त्वं मां मुक्त्वा गतः परम् । इत्याशीः प्रददौ श्रेष्ठिनन्दनी निजवल्लभम् ॥ ९३ ॥ भविष्यतीत्वत्सङ्गो मया सार्धं यदा धव ! । तदाहं तव दास्यामि कांचित् शिक्षां च निश्चितम् ॥ ९४ ॥ अथ जिनप्रभावाच्च कष्टौघो यास्यति क्षयम् । आदितीर्थकृतो मूर्ति चकाराऽतो मृगेक्षणा ॥ ९५ ॥ निवेश्य प्रतिमां शैले प्रानर्च सततं वधूः । तदग्रे श्रीनमस्कारान् सा च जपति यावतः ॥ ९६ ॥ यतः - सङ्ग्राम - सागर - करीन्द्र - भुजङ्ग - सिंह - दुर्व्याधि-वहि-रिपु-बन्धनसंभवानि ॥ चरित्रम् ॥ ४ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26