Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
Catalog link: https://jainqq.org/explore/022765/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ RANDRAKARomaniamocwwwwwwnwarokaaamanawEH यतिपुङ्गवश्रीमद्-ऋद्धिचन्द्रेण निर्मितम् । । मृगाङ्कचरित्रम्। sexsts इदं पुस्तकं मुम्बय्यां ए. एम् . कंपनी, इत्यनेन निर्णयसागरमुद्रणास्पदे मुद्रापितं प्रकाशितं च । वीरसंवत् २४४३ विक्रम १९७३ क्राइष्ट १९१७. वेतनम् ५ आणकाः Printed by Ramchandra Yesu Shedge, Nirnaya-Sagar Press, 23, Kolbbat Lane, Bombay. Published by Manchand Velchand, Gopipura-SURAT. Page #2 -------------------------------------------------------------------------- ________________ पुस्तकप्राप्तिस्थानम् पं० त्रिभुवनदास अमरचंद पालीताणा. शा० मानचंद वेलचंद गोपीपुरा-सुरत Page #3 -------------------------------------------------------------------------- ________________ । श्रीमद्ऋद्धिचन्द्रेण निर्मितम् । । मृगाङ्कचरित्रम्। SEXASANSARKARTS श्रीचिन्तामणिपार्श्वनाथाय नमः । श्रीगुरुभ्यो नमः । श्रीपार्थः प्रत्यहं जीयात् स श्रीमान् वसुधातले । प्रोद्यद्गुणालिसद्धामपार्श्वसेवितपार्श्वकः॥१॥ यो ददाति महद्भद्रं भव्यानां भीतिभअनः। भाखद्भानुसमाकारो निजवंशमरुत्पथे ॥२॥ युग्मम् भारति ! भारती स्फारां दद्यास्त्वमेव सत्वरम् । सुराणामपि शौघप्रदामेवामृतप्रभाम् ॥३॥ सचरित्र मृगाङ्कस्य करिष्यऽहं जनप्रियम् । नत्वा खगुरुपादाब्जं निमेलद्युतिभासुरम् ॥४॥ जम्बूद्वीपेऽत्र भरतक्षेत्र विश्वविभूषणम् । नदीपर्वतसद्ग्रामश्रेणिसमन्वितम् ॥ ५॥ तत्रास्ति नगरी रम्या वाराणसी जनाकुला । प्रोत्तालवप्रपरिखा वापीकूपसरोऽन्विता ॥६॥ विहारवर्णवामाङ्गीवाग्मिवारणवाजिभिः । वणिग्वाचंयमवृन्दवैद्यैश्च परिशोभिता ॥७॥ यतः-वापीवप्रविहारवर्णवनिता वाग्मी वनं वाटिका वैद्यो विप्रकवारिवादिविबुधा वेश्या वणिय वाहिनी। ANCHORASRA%ticist मृगांक.१ Page #4 -------------------------------------------------------------------------- ________________ मृगाक लिचरित्रम् ॥ १ ॥ ACCORRHAMAK विद्या वीरविवेकवित्तविनवा वाचंयमा वलिका, वस्त्रं वारणवाजिवेसरवरं राज्यं ववैः शोभते ॥८॥ राज्यं चकार तस्यां सद् मकरध्वजभूपत्तिः। रूपेण जितकन्दर्पःप्रतापाक्रान्तभास्करः ॥९॥ न्यायवल्लीपयोषाहः कामधार्थतत्परः। विशुद्धकुलसम्भूतः शस्त्रशास्त्राब्धिपारगः ॥१०॥ तस्करो यस्य देशेषु बन्धनं नास्ति कुत्रचित् । रोगश्शोककरश्चैव भयं वैरं परस्परम् ॥११॥ सचिवस्तख विख्यातो वर्तते स्म महीपतेः। सुबुद्धिरिति नाना हि कुशाग्रबुद्धिऋद्धिभृत् ॥ १२॥ राज्यभारधरो नित्यं सर्वशास्त्रविशारदः । परचित्तस्य सङ्कल्पज्ञाता भोग्यकभोगकः ॥१३॥ निम्नसागरगम्भीरो बुया च धीषणोपमः। समग्रगुणसंयुक्तो जनानां मोहकारकः॥१४॥ तस्य राज्ञः प्रिया रेजे नाम्ना मदनवल्लभा। समग्रगुणमञ्जुषा रूपेण मदनप्रिया ॥ १५॥ तस्या वदनमाभाति रजनीशसमप्रभम् । सुधौतधामसद्धाम पद्मपत्रसुलोचनम् ॥ १६ ॥ सा भाति भुवने रम्या शीलेन जनकात्मजा । सर्वशृङ्गारसंयुक्ता चातुर्यगुणशोभिता ॥ १७ ॥ तस्याः सूनुः सदा रेजे रूपसुन्दरनामतः । विनवादिगुणाधारः समासुकलान्वितः ॥१८॥ रूपेण जितदेवेन्द्रः शस्त्रविद्याविभूषितः । शास्त्रालङ्कारशिल्पज्ञः प्रसिद्धबुधसेवितः ॥१९॥ तस्य शरीरमाभाति रम्भाग तिकोमलम् । लसलक्षणसंयुक्कं कल्याणविमलद्युति ॥२०॥ ॥१॥ Page #5 -------------------------------------------------------------------------- ________________ aai वसति दाता हि श्रेष्ठी कुसुमसारकः । परिवारेण संयुक्तः विख्यातः क्षितिमण्डले ॥ २१ ॥ जनवजेषु कल्पः द्रव्येण धनदोपनः । धर्मकर्मविधौ दक्षः रूपेण रतिवल्लभः ॥ २२ ॥ तस्मास्ति रमणी रम्या स्वयंप्रभाभिधा शुभा । केलीवत्कोमलाङ्गी च कलाकलापधारिका ॥ २३ ॥ विराजते मुखं तस्या विकखरकजप्रभम् । सहन्तनयनैर्युक्तमर्चितं जनदृक्कजैः ॥ २४ ॥ तस्याः कुक्षौ समुत्पन्नो मृगाङ्को मृगनेत्रजित् । गत्या तर्जितमचेभो वक्रेण यामिनीपतिः ॥ २५ ॥ वृद्धिं प्राप कुमारोऽसौ यावदेवाष्टवार्षिकः । मुक्तः पित्रा गुरूपान्ते कलाग्रहणहेतवे ॥ २६ ॥ यतः - माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ २७ ॥ लालयेत् पञ्च वर्षाणि अष्ट वर्षाणि पाठयेत् । प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रं समाचरेत् ॥ २८ ॥ अथ तत्रैव नगरे धनञ्जयो महर्द्धिकः । वसति प्रमदा तस्य प्रिया धनवती शुभा ॥ २९ ॥ तयोः पुत्री गुणश्रेणिः पद्मावती कजेक्षणा । तद्दिने सापि मुक्ता च पठनाय निरालसा ॥ ३० ॥ पद्मावतीमृगाङ्कौ तौ कलाभ्यासं प्रकुर्वतः । क्षीरनीरनिभा नित्यमासीत्प्रीतिस्तयोर्मिथः ॥ ३१ ॥ यतः - "पथ पानी उपर मिले अंतर मिलो नहीर । किं उमराल नीरह तजी किं उगही पीइ सुषीर ॥ ३२ ॥ पीरवारि प्रीति अति इह जानत सब कोय । करत जुदाई इंसबल वलर्थि कहा न होय" १ ॥ ३३ ॥ Page #6 -------------------------------------------------------------------------- ________________ मृगांक | चरित्रम् ॥२॥ एकस्मिन्समये तस्मिन्ननध्यायः समागतः । छात्रपठनशालायां स्थिता पद्मावती खयम् ॥३४॥ पुत्रः कुसुमसारस्य क्रीडां कर्तुं गृहे गतः। स्मृत्वा पद्मावती चित्ते चलितः स्नेहनोदितः ॥ ३५ ॥ व्रजन् मार्गे च मिलितः धनञ्जयो धनतः । अशीतिकपर्दान्तस्मै स ददौ खसुताकृते ॥३६॥ गृहीतस्तेन कूष्माण्डपाको वर्त्मनि गच्छता । कथयिष्यति सा किं मामिति विचिन्त्य भक्षितः ॥ ३७॥ पद्मावतीसमीपे स भक्षयित्वा गतस्ततः । तया प्रश्नः कृतस्तस्य, भक्षितं भोस्त्वयाद्य किम् ? ॥ ३८॥ कुमारस्तामुवाचैवं दत्ताशीतिकपर्दकाः । तव पित्रा त्वदर्थं च मम हस्तेऽतिरागतः ॥ ३९ ॥ विक्रीय तान् मया सर्वान् लात्वा कूष्माण्डपाककम् । भक्षितः खादतो नूनं भुक्त्वा चाहमिहागतः॥४०॥ तच्छुत्वा कुपिता सा चोवाच वक्रेण तत्पुरः। नैतत् कार्य हि मित्राणामेकाकित्वेन भोजनम् ॥४१॥ पश्चादुवाच सा बाला मृगाङ्ककुमरं प्रति । पुनः किं ते मया वाच्यं खोदरं भरितं त्वया ॥४२॥ भक्ष्यलेशोऽपि मह्यं च न दत्तस्त्वयकाऽधम ! । शिक्षां ददामि किं ते च नूनं मैत्र्यात् पुनः पुनः॥४३॥ यदा भवन्ति मत्पार्थे कपर्दाः कुमर ! शृणु। तदाहं भूषणं रम्यमकार्ष कर्णकुण्डलम् ॥४४॥ श्रुत्वेति वचनं तस्याः खेदखिन्नोऽभवच्छिशुः । अनया मयि मित्रत्वं साम्प्रतं न विचारितम् ॥४५॥ विमृश्यत्येव स शावो मौनं कृत्वा स्थितस्ततः। भविष्यति मदायत्ता शिक्षा दास्ये यदा तदा ॥४६॥ ॥ २ ॥ Page #7 -------------------------------------------------------------------------- ________________ इति चिन्तयतः प्रीतिर्बभूव मनसा विना । कलाकुशलतां सम्यक् तौ प्राप्तौ गुरुभक्तितः ॥४७॥ यतः-“वाति कीई कवण गुण जिहां नवि मलिउं मन्न । मन्नविहुणो प्रेमरस जाणे अलुणो अन्न ॥४८॥ मनु तोलो तनु ताजवी हे सखी ! नेह केता मण होय । लांगते लेखुं नहीं टूटइ टांक न होय" ॥४९॥ पद्मावतीमृगाङ्कौ तौ खखधानि गतावुभौ । पठित्वा सर्वशास्त्राणि गुरुनिर्देशतो मुदा ॥५०॥ क्रमेण यौवनं प्राप कुमारः कमलेक्षणः। पिता तस्य कृते कन्यां लोकयामास तत्पुरे ॥५१॥ एकस्मिन् दिवसे श्रेष्ठी पद्मावतीं ददर्श च । समग्रगुणमञ्जूषां शीलालङ्कारधारिणीम् ॥५२॥ धनञ्जयसमीपे स खाङ्गजाथै ययाच ताम् । कुमारसदृशां चैव वयसा विद्यया गुणैः ॥ ५३॥ धनञ्जयस्तद्वचनमङ्गीचकार निश्चितम् । शुभ मुहूर्तमालोक्य विवाहः क्रियते ध्रुवम् ॥ ५४॥ तयोः शुभेऽह्नि विप्रेण विवाहस्तत्र मेलितः । पञ्चशब्दादिवादित्रैः गीतनृत्यैः पुरस्सरम् ॥५५॥ गजतुरगसङ्घातैः सुखासनैश्च सद्वजैः । याचकत्रजसद्दानैः तूर्यसन्दोहसुन्दरैः॥ ५६ ॥ अनेकोत्सवसन्दोहश्चक्रतः श्रेष्ठिशेखरौ। तयोननं शुभे लग्ने पाणिग्रहणमद्भुतम् ॥ ५७॥ युग्मम् । कृतोद्वाहं मनोऽभीष्टं समानीता खसद्मनि । हर्ष प्रापेति स शावः फलितं मम वाञ्छितम् ॥ ५८॥ तावेव दम्पती तत्र भोजयामासतुः सुखम् । प्रसुप्तावेकदा खैरं रजन्यां सप्तमे गृहे ॥ ५९॥ Page #8 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम् ॥३ ॥ +++GHASTRACK RASARE मृगाको वचनं तखाः सस्मार हृदि तत्क्षणे । मारयाम्यहमेनां किम् अबला बलर्जिताम् ॥ ६॥ गच्छाम्यपरदेशेष्वेना मुक्रवाऽत्रैव साम्प्रतम् । येनैषा लभते सद्यः खकीयवचसः फलम् ॥ ६१॥ यतः-आज्ञाभङ्गो नरेन्द्राणां गुरूणां मानमर्दनम् । पृथक् शय्या च नारीणामशलवध उच्यते ॥ ६ ॥ आपृच्छच पिसरी प्रातो मृगाको गममोत्सुकः। चकार पोतसामग्री वाणिज्यार्थे च सत्ववान् ॥ ६ ॥ यतः-लक्ष्मीर्वसति वाणिज्ये किंचिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां भिक्षायां न कदाचन ॥ ६४॥ प्रत्युषाच मृगाकस्तामिति मे पचनं कुरु । भद्रे ! त्वयात्र स्थातव्यं देशान्तरे ब्रजाम्यहम् ॥६५॥ यतः-दीसह विपिहचरिणं जाणिजह सज्जणदुजणविसेसो । अप्पाणं च कलिजाद हिडिजा तेण पोहवीए ॥६६॥ गृहकार्य च कर्तव्यं शीषा रक्षेसतः पराम् । सुकाी त्वया पित्रोमक्तिर्देव-गुरौ तथा ॥ ६७॥ माफर्य वचनं तस्य प्रत्यूचे निजवलमम् । बाममिष्ये भवत्ताधं छायेव वपुषः सदा ॥ ६८॥ हे स्थातुंम युक्तं हि पोपिता पतिमा विना । प्राणान्तेन हि मुश्चामि समीपं भवतस्ततः ॥ ६९ ॥ तथा सार्ध मृगाहोऽसौ प्रणम्य चरणं पितुः । अम्बुधौ यानपात्रं च व्यारोह शुने दिने ॥७॥ सतबचालपोतस्यो वृणाही जलपर्मनि । क्रीडा कुर्वन् तवा सार्वमनेकगुणबुतः ॥ ७॥ क्रमेण राक्षसनीपं रण्डा प्राप तस्य पम् । दई विवस्वत्र मृगाहेनैव लीवचा ॥२॥ Page #9 -------------------------------------------------------------------------- ________________ उत्तेर : पोततः सर्वे चकुः कार्याणि से जमाः । केचिद् गीतानि गायन्ति केचित् क्रीडन्ति निर्भरम् ॥ ७३ ॥ आमबन्ति जलं केचित् केचित् कुर्वन्ति भोजनम् । केचित् खानं प्रकुर्वन्ति दीर्घिका विशेषतः ॥ ७४ ॥ केचित् बन्धून् समाइय दर्शयन्ति च कौतुकम् । इत्यादिक्रीडया सर्वे तिष्ठन्ति तत्र निर्भयम् ॥ ७५ ॥ उत्तर मृगाकोsपि कान्तया कान्तया युतः । दर्शयित्वा वनं सर्व सुष्वाप केलिमन्दिरे ॥ ७६ ॥ घोरनिद्रां वधूं दृष्ट्वा कुमारश्वोत्थितस्ततः । स्मृत्वा च वचनं पूर्व मन्युनाऽरुणलोचनः ॥ ७७ ॥ मध्यरात्रौ प्रगतायां लेखा - ऽशीतिकपर्दकान् । प्रबद्धा च मृगाङ्केन पद्मावत्यश्चले ततः ॥ ७८ ॥ तल्लेखे लिखितं तेन मयोदरं च पूरितम् । अथैतान् कपर्दान् भद्रे ! गृहीत्वा कुरु भूषणम् ॥ ७९ ॥ प्रियां तत्र मुक्त्वा च चलितः पोतसन्मुखम् । पूत्कारमिति चक्रे स राक्षसैर्भक्षिता वधूः ॥ ८० ॥ हकारितं मृगाङ्केनोपविश्य पोतमद्भुतम् । क्रमेण गच्छता मार्गे संजातस्तपनोदयः ॥ ८१ ॥ धनञ्जयसुता तत्र जागृता केलिमन्दिरे । मां मुक्त्वा च गतः कुत्र चिन्तितमिति मे पतिः ॥ ८२ ॥ अर्पिताहं च भर्त्तारं मिलित्वा मातृपितृभिः । न मुञ्चति वनेऽसौ मां यानपात्रे भविष्यति ॥ ८३ ॥ खाऽपि जगाम तत्पोतं गत्वा तत्र विलोकितम् । न यानं न च भर्ता हि धरिद्र्यां पतिता ततः ॥ ८४ ॥ चकार रोदनं तस्मिन् पद्मावती वियोगिनी । किं करोमि क गच्छामि रमणेन विनाऽधुना ? ॥ ८५ ॥ Page #10 -------------------------------------------------------------------------- ________________ मृगांक 118 11 "सुख गयां सवि सासरइ पीहर टलीउं मान । कंतविंहूणी गोरडी जिंहा जाइ सिंहा रान ॥ ८६ ॥ हिडा ! झूर म मुष्टिकर झूरत नयणे हाणि । कवण सुणेस्यइ रानमां रोयुं कंठ पराण ॥ ८७ ॥ दैवें कीधां दूरि दोहिलं केतुं आणीइ । हीयडा करि संतोस करम सिख्यं फल पाईइ ॥ ८८ ॥ यतः - उदयति यदि भानुः पश्चिमायां दिशायां प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां, न चलति विधिवशानां भाविनी कर्म्मरेखा ॥ ८९ ॥ बभूव सावधाना सा प्रसरच्छीतवायुना । तदैव खाञ्चले दृष्ट्वा लेखान्वितकपर्दकान् ॥ ९० ॥ वाचयामास तल्लेखं पद्मावती वने स्थिता । प्रत्युवाचेति भर्त्तारं युक्तः कोपोऽत्र ते न भोः ! ॥ ९१ ॥ उत्तमैर्न कदा कार्य योषितां वनमोचनम् । विललाप स्थिता तत्र सीतेवाऽरण्यमध्यगा ॥ ९२ ॥ भवतु तव कल्याणं त्वं मां मुक्त्वा गतः परम् । इत्याशीः प्रददौ श्रेष्ठिनन्दनी निजवल्लभम् ॥ ९३ ॥ भविष्यतीत्वत्सङ्गो मया सार्धं यदा धव ! । तदाहं तव दास्यामि कांचित् शिक्षां च निश्चितम् ॥ ९४ ॥ अथ जिनप्रभावाच्च कष्टौघो यास्यति क्षयम् । आदितीर्थकृतो मूर्ति चकाराऽतो मृगेक्षणा ॥ ९५ ॥ निवेश्य प्रतिमां शैले प्रानर्च सततं वधूः । तदग्रे श्रीनमस्कारान् सा च जपति यावतः ॥ ९६ ॥ यतः - सङ्ग्राम - सागर - करीन्द्र - भुजङ्ग - सिंह - दुर्व्याधि-वहि-रिपु-बन्धनसंभवानि ॥ चरित्रम् ॥ ४ ॥ Page #11 -------------------------------------------------------------------------- ________________ चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ ९७ ॥ यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमं श्रद्धावान् विजितेन्द्रियो भवहरं मनं जपेत् श्रावकः। पुष्पैः श्वेतसुगन्धिभिश्च विधिना लक्षप्रमाणैर्जिनं यः संपूजयते स विश्वविदितः श्रीतीर्थराजो भवेत् ॥९८॥ ___ बने रणे शत्रु-जला-ऽग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ ९९॥ अतो बबन्ध सा बाला पर्वतोपरि सद्ध्वजम् । विदृश्यैनं यतः कोऽप्यत्रागच्छति वजन्पथि ॥१०॥ क्रमेण कोऽपि तन्मार्गे गच्छंश्च व्यावहारिकः । ध्वजं दृष्ट्वा च तद्वीपे तरण्डो रक्षितस्ततः ॥ १.१॥ उत्तीर्य वणिजां मुख्यो जवात् तत्र नगे गतः। अर्हत्भक्तिपरां बालां ददर्श रूपसुन्दरीम् ॥ १०२ ॥ इति पप्रच्छ तां श्रेष्ठी त्वं तिष्ठसि कथं वने ? । देवी वा.किन्नरी वा त्वं भद्रे कथय मां प्रति ॥१३॥ पूर्ण ध्यानं च कृत्वा सा, श्रुत्वेति तद्वचोऽवदत् । भ्रातोऽहं श्रेष्ठिनः पत्नी यानभङ्गादिहागता ॥ १०४ ॥ उवाच तां पुनः श्रेष्ठी भगिनि ! मे वचः शृणु । आगच्छ त्वं मया साधैं मोचयिष्ये शुभस्थले ॥१०५॥ सा विधायाहतः पूजां चचाल श्रेष्ठिना सह । चलितं श्रेष्ठिन श्चित्तं वधूपरि ब्रजन्पथि ॥ १०६ ॥ यतः-पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा नारी सुशोभिताम् । तानि त्रीणि वने दृष्ट्वा कस्य न चलति मनः १ ॥१०७ ॥ Page #12 -------------------------------------------------------------------------- ________________ मृगांक॥ ५ ॥ afrat कथवित्वेमां वचनाचलितः शठः । ज्ञात्वेति शासनदेव्या तत्पोतः खण्डशः कृतः ॥ १०८ ॥ सावधूः फलकं लब्ध्वा प्रोतरन्ती पयोनिधिम् । उल्लालिता गजेन्द्रेण झुण्डवा सुरवर्त्मनि ॥ १०९ ॥ विद्याधरविमाने सा पतितातीच सुन्दरी । उवाच कार्मुकं वाक्यं तस्मा विद्याधराधिपः ॥ ११० ॥ विद्याधरं च सा बाला वचसा प्रत्यबोधयत् । स शीलादिगुणैस्तुष्टस्तिस्रो विद्या ददौ वराः ॥ १११ ॥ यतः - स्रीलं उत्तमं वित्तं सीलं आरोग्गकारणं परमं । सीलं भोगनिहाणं सीलं ठाणं गुणगणाणं ॥ ११२ ॥ अष्टकरण विद्यां परविद्याविनाशनीम् । अन्यरूपकरीं चैव सापि जग्राह तत्क्षणे ॥ ११३ ॥ अहं मुञ्चामि कुत्र त्वां वाले ! कथय मत्पुरः । तयोक्तं सुसुमाराख्यपुरे मुञ्च महाशय ! ॥ ११४ ॥ स बालां तत्पुरोधाने मुक्त्वा खसदने गतः । साऽन्वरूपपरावर्त्त्या विद्यया पुरुषोऽभवत् ॥ ११५ ॥ सहसाङ्केति नामाऽसौ भूत्वा जगाम तत्पुरे । पुष्पलावीगृहे तस्थौ लीलया क्रीडयन् भृशम् ॥ ११६ ॥ नगरस्य जनाः सर्वे आयान्ति तस्य संनिधौ । सोऽपि समस्तशास्त्राणि सर्वेषां वदति स्फुटम् ॥ मालिनीसदमे तिष्ठन्मे जाता बहवो दिनाः । विना द्रव्येण मद्भक्तिरनया क्रियते भृशम् ॥ ११८ ॥ कयाचित् कलवा कृत्वा द्रव्यं ददामि तत्करे । इति मत्वा करे तस्था आर्पयच्च कपर्दकान् ॥ ११९ ॥ उवाचेति भृशं श्रेष्ठिनन्दमो मारविग्रहः । मत्कपर्दाम् गृहीत्वा त्वं बर्हाण्यानव मालिनि ! ॥ १२० ॥ ११७ ॥ चरित्रम्. ॥ ५ ॥ Page #13 -------------------------------------------------------------------------- ________________ सर्हाणि समानीय, कुमाराय च सा ददौ । कृतस्तेन नरमानामाङ्कितः सुव्यञ्जनः ॥ १२१ ॥ इत्युक्त्वा स ददौ तस्या हस्ते ध्वजनकं मुदा । पञ्चशतैश्च दीनारैः विक्रेयः षोडशाधिकैः ॥ १२२ ॥ विक्रेयार्थ गृहीत्वा सा गता व्यक्षमकं मुदा । बदन्ती मालिनी मूल्यं चतुष्पथे जनाकुले ॥ १२३ ॥ जनाः पुरस्य तत्पार्श्वे दर्शमार्थ समागताः । एकः करे गृहीत्वा तं पश्यति स्म निरर्थकम् ॥ १२४ ॥ पप्रच्कस्तस्य मूल्वं वायुं क्षिपति कश्चन । वदत्येको न गृह्णामि हास्यमेके प्रकुर्वति ॥ १२५ ॥ इयं जाता हि प्रथिला वदन्त्येते मिथो जमाः । यदास्ति द्रव्यमेतच्च प्राप्यन्ते व्यञ्जमोत्कराः ॥ १२६ ॥ एकस्व हृदये जातमाश्वर्ये बहुमूल्यतः । कथितस्तेन वृत्तान्तः नरब्रखनृपाय च ॥ १२७ ॥ स तामाकारयामास कौतुकाद् नृपतिर्जवात् । साऽपि गत्वा स्थिता पार्श्वे प्रणम्य नृपतिं च तम् ॥ १२८ ॥ तं स्वनामाङ्कितं दृष्ट्वा व्यञ्जनं हर्षितो नृपः । आपृच्छय मालिनीं मूल्यं द्विगुणं दत्त्वाम् नृपः ॥ १२९ ॥ पुनः पप्रच्छतां राजा निर्मितः केन व्यञ्जनः । मालिन्यूचे महीनाथ ! वैदेशिकोऽस्ति महे ॥ १३० ॥ रूपलावण्यसंपन्नो विद्यया कलितो युवा । तेनायं निर्मितो रम्यस्तव नामसमन्वितः ॥ १३१ ॥ युग्मम् ॥ श्रुत्वस्याकारयामास तं कुमारं नराधिपः । पुष्पलावीगृहात्सोऽप्यागत्याऽऽननाम तं शिरः ॥ १३२ ॥ विद्यावन्तं विदित्वा तं नरब्रह्मनराधिपः । मुमोचात्माङ्गजान् सद्यस्तत्पार्श्वे पठनाय च ॥ १३३ ॥ Page #14 -------------------------------------------------------------------------- ________________ चरित्रम्. मृगांक॥६॥ SARALASAMACHAR शब्दनीतिलसत्काव्य-शास्त्रछन्दांसि भूरिशः । एतानि सर्वशास्त्राणि पाठयैतान् ममाज्ञया ॥ १३४ ॥ यतः-विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।। विद्या बन्धुजनो विदेशगमने विद्या परा देवता, विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥१३५॥ उवाच सहसाङ्कोऽसौ नरब्रह्ममिति स्फुटम् । एतेषां पाठनकृते मन्दिरं मे समर्पय ॥ १३६॥ राज्ञा तस्मै गृहं दत्तं तस्थिवान् सोऽपि निर्भयः। कुमारान् पाठयामास तान् सर्वान् हि निरन्तरम् ॥१३७॥ छन्दोऽलङ्कारसङ्गीतगूढार्थन्यायनीतयः। एतानि सर्वशास्त्राणि पेठुस्ते च विशेषतः॥१३८॥ कलासु कुशलाः सर्वे जाताः स्तोकदिनैरपि । राज्ञोऽग्रे सहसाङ्केन मुक्तास्तेऽपि च बालकाः ॥ १३९ ॥ तान् कुमारान् नृपेणोक्तं परीक्षार्थमिति ध्रुवम् । दर्शयन्तु विनोदं भोः ! पुत्राः! शास्त्रस्य मत्पुरः ॥ १४०॥ एक एकं प्रत्युवाच किं जीविअस्स चिंधं का भजा होइ मयणरायस्स ? किं पुप्फाण पहाणं ? परिणीआ किं कुणइ बाला ? ॥ १४१॥ अपरेणोत्तरं दत्तमिति-सासरइजाई'। पुनः द्वितीयेनोक्तम्१ क्रमेण-श्वासः, रतिः, जातिः, समुदायेन चतुर्थप्रश्नस्योतरं भाषायां 'सासरे जाय' । ॥६ ॥ Page #15 -------------------------------------------------------------------------- ________________ शरीरं विगताकारमनुखारविवर्जितम् । यदिदं जायते रूपं तत्ते भवतु सर्वदा ॥ १४२ ॥ अपरेणोक्तम्-श्रीरिति । पुनरेकेनोक्तम्आधेन हीनं जलधावश्यं, मध्येन हीनं भुवि वर्णनीयम् । अन्येन हीनं धिनुते शरीरं, यस्याभिधानं स जिनः अन्येनोत्तरं दत्तम्-शीतल इति [श्रिये वः। पुनः कश्चिदुवाच-जटिलोऽपि न च ब्रह्मा त्रिनेत्रो नैव शंकरः। अम्बुधरो नैव मेघो वनवासी नैव तापसः चतुर्थनोत्तरं दत्तम्-नालिकेरमिति । इति शास्त्रविनोदं स दृष्ट्वा निजाङ्गजन्मनाम् । हर्षितस्तमुवाचैवं सहसाङ्घ धराधवः ॥ १४५॥ तुष्टोऽहं त्वयि सत्प्राज्ञ ! याचख वरमीप्सितम् । ययाचे शौल्किकत्वं स ददी राजापि तत्क्षणम् ॥ १४६ ॥ शौकिकत्वं गृहीत्वा स खानुचरान् प्रजल्पति । अर्द्धदाणं मया मुक्तं तचौर्य त्याज्यमङ्गिभिः ॥ १४७ ॥ इत्यादिघोषणां कृत्वा कुमारस्तत्र तस्थिवान् । सुखेन खाधिकारं च पालयामास तत्पुरे ॥ १४८ ॥ अथ तस्मिन्पुरे चौरः समागत्य निरन्तरम् । चौयं करोति निःशङ्को दुर्जयो दिव्यविद्यया ॥ १४९ ॥ एकदेति महीपालो विज्ञप्तो पुरवासिभिः । अस्माभिश्चौरभीत्या च पुरे स्थातुं न शक्यते ॥ १५॥ मृगांक. २४ Page #16 -------------------------------------------------------------------------- ________________ मुगाक ॥७॥ नृपः श्रुत्वा तलारक्षमाहूयेत्यवदत् ततः । चौरं कर्षय त्वं सद्यो यथाऽत्र स्यात् सुखं नृणाम् ॥ १५१ ॥ इत्युवाच तलारक्षो नरब्रह्ममहानृपम् । विलोकितो मया चौरः परं क्वापि न लभ्यते ॥ १५२ ॥ ततो मत्री लसद्बुद्धिर्नरब्रह्ममुवाच तम् । अद्याऽहं तस्करं कर्षे उदित्वा बीडकं धृतम् ॥ १५३ ॥ इति श्रुत्वापि स चौरः प्रधानसदने गतः । दत्त्वाऽवखापिनीं निद्रां सर्वेषां गृहवासिनाम् ॥ १५४ ॥ कृत्वा च पश्चिमे द्वारं प्रविष्टस्तत्र तस्करः । गृहनेतेव सर्वत्र ददर्श निर्भयो वली ॥ १५५ ॥ मुक्ताफलानि रत्नानि वस्त्राणि भूषणानि च । अन्यान्यपि च वस्तूनि मुषित्वा तस्करो गतः ॥ १५६ ॥ प्रभातसमये जाते प्रधानो जागृतस्ततः । तदैव खगृहे खात्रं दृष्ट्वा मनसि विस्मितः ॥ १५७ ॥ स प्रधानो नृपासन्ने गत्वाऽवदत् पुनः पुनः । न मुक्तं मद्गृहे किञ्चित् चौरेण स्फारबुद्धिना ॥ १५८ ॥ ततोsवदजराजीर्णा नृपं नगरनायिका । वशीकार्यो मया चौरः क्षणेन कपटाद् भृशम् ॥ १५९ ॥ रूपमद्भुतमा ! धृत्वा श्रुत्वा चौरः स बीडकम् । क्रीडां कुर्वन् सुयामिन्यामागतो नायिकागृहे ॥ १६० ॥ कुनरूपधरां दासीं दृष्ट्वा चौरेण तत्र च । मुष्टिघातेन सा दासी, सरला विहिता तदा ॥ १६९ ॥ सापि खखामिनी पार्श्वे गत्वा नत्वा च संस्थिता । द्वारस्थितेन केनापि सरला विहिता मुदा ॥ १६२ ॥ नायिकोवाच तं श्रुत्वा दासीमिति पुनः पुनः । त्वमाकारय तं भद्रे ! शीघ्रं सोऽपि समागतः ॥ १६३ ॥ नायिकोवाच भो विद्वन् ! मां कुरु नवयौवनाम् । अर्पिता गुटिका तस्यै शिक्षयित्वेति तेन वै ॥ १६४ ॥ चरित्रम्. ॥ ७ ॥ Page #17 -------------------------------------------------------------------------- ________________ शून्यसद्मनि निर्वस्त्रं स्थातव्यं त्वयकाऽधुना । त्वां यदा कथयिष्येऽहं गन्धनीयेयमद्धता ॥१६५॥ स नायिकां गृहे क्षिप्त्वा कपाटं दत्तवान् ततः । पश्चात्सर्वाणि वस्तूनि मुषित्वा तस्करोऽवदत् ॥ १६६ ॥ गन्धख गुटिकां वृद्धे ! इत्युक्त्वा तस्करो ययौ । सापि वारत्रयं मूलीगन्धिताऽभूच रासभी ॥ १६७ ॥ प्रातःकालो यदा जातस्तदा दासी समागता । वृद्धां च रासभी दृष्ट्वा गत्वा राजे न्यवेदयत् ॥ १६८॥ तच्छुत्वा सुभटाः सर्वे तस्मिन्पुरेऽपि हारिताः। तद् बीडकं हि केनापि चौरभीत्या च नादृतम् ॥ १६९॥ चिन्तितमिति चौरेण कस्मिन् सुवासरे हृदि । अथानयामि भूपस्य पुत्रीमतीव सुन्दराम् ॥ १७० ॥ मध्यरात्रौ समागत्य गृहीता नृपनन्दनी । गत्वा खसदने मुक्ता पुत्रीमतीव सुन्दराम् ॥ १७१॥ प्रातस्तस्या गृहे चेटी समायाता शुभानना । नो दृष्ट्वा तत्र तां बाला-मित्यवोचन्नृपान्तिके ॥ १७२ ॥ खपुत्रीहरणं ज्ञात्वा पटहोद्घोषणं कृतम् । यो ह्यानयति मत्पुत्रीं लभते तां सलक्ष्मीकाम् ॥ १७३॥ सहसाङ्केन तं श्रुत्वा गृहीतः पटहस्ततः । नृपते ! स्मर जिनाधीश-मागच्छति यथा सुता ॥ १७४॥ पुनरूचे नृपस्याग्रे सहसाङ्कः खबुद्धिना। चौरस्य बन्धनं कृत्वा-ऽऽनेष्यामि हि तवात्मजाम् ॥ १७५॥ यतः यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः॥१७६ ॥ उद्यमः साहसं धैर्य बलं बुद्धि-पराक्रमम् । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥ १७७॥ Page #18 -------------------------------------------------------------------------- ________________ चरित्रम्. मृगांक ॥८॥ उदित्वेति कुमारस्तं स्वसदने समागतः । प्रत्युद्धाट्य खभण्डारान् प्रच्छन्नः संस्थितो निशि ॥ १७८ ॥ परविद्याविनाशनी स्मरन् चित्ते स हर्षितः । खकीयमदृश्यरूपं कृत्वा तत्र च तस्थिवान् ॥ १७९ ॥ तस्मिन्नवसरे चौर आगत्य तस्य समनि । सर्वेषामवखापिनी-निद्रां ददौ स निर्भयः ॥ १८॥ कुमारविद्यया जाता-ऽवस्वापिनी च निष्फला । दृष्टं सर्व कुमारेण न च चौरेण स पुमान् ॥ १८१॥ ततः सर्वाणि वस्तूनि गृहीत्वा तस्करो व्रजन् । दृष्टस्तेन कुमारेण सोऽपि चचाल पृष्ठतः ॥१८२ ॥ गुफामुद्घाट्य चौरोऽसौ धनं मुक्त्वा च तत्क्षणम् । इत्युवाच कुमारी तां भुङ्ख भोगान्मया सह ॥१८३ ॥ चौरमूचे कुमारी सा श्रुत्वेति वचनं कटु । बलात्कारेण सत्प्रीतिनों भवति कदाचन ॥१८४॥ यतः-कविता वनिता गीतिः, स्वयमेवागता वरम् । बलादाकर्षमाणा हि सरसा विरसा भवेत् ॥ १८५॥ श्रुत्वा तद्वचनं चौरो भीमखड्न सत्वरम् । केशपाशं करे कृत्वा तां प्रहर्तुं समुत्थितः ॥ १८६ ॥ तद् दृष्ट्वा सहसाङ्कश्च खई धृत्वा करेऽवदत् । तस्कर ! मां समागच्छ यदि त्वं बलवानसि ॥ १८७ ॥ श्रुत्वा विमुच्य तां चौरो, गतः कुमारसन्निधौ । कुमार-चौरयोयुद्ध-मभूत्तत्र भयङ्करम् ॥ १८८ ॥ दृढं बद्धः कुमारेण तस्करो बलवानपि । करगृहीतनिस्त्रिंशः सत्त्वात् किं लभते न हि? ॥ १८९॥ यतः-विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलं, क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १९ ॥ Page #19 -------------------------------------------------------------------------- ________________ AASAREENGACASARSA घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो, वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् । तथाऽप्येकोऽगस्त्यः सकलमपिबद् वारिधिजलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १९१ ॥ सुभटश्रेणिकोटीरः कुमारो नृपसन्निधौ । प्रत्यूपसमये गत्वा सद्यस्तावार्पयद् भृशम् ॥ १९२ ॥ यत्तस्करेण तद्रामे गृहीतं वस्तु विश्रुतम् । तत्सर्व जनतावृन्दैः गृहीतं श्रीनृपाज्ञया ॥ १९३॥ जनाः सर्वेऽपि सन्तुष्टाः कुमारायाशिषं ददुः । दृष्ट्वा तस्य कुमारस्य कार्यमेतद्रीयसम् ॥ १९४ ॥ खर्यऽवस्वापिनी विद्या तालकोद्घाटनी तथा । तथा रूपकरी विद्या विदुषां वल्लभा सदा ॥ १९५॥ चतस्रस्तस्करादेता विद्या जग्राह तत्क्षणम् । कुमारसहसाको हि सत्त्ववान् सुजनप्रियः ॥ १९६ ॥ कुमारानुग्रहाद्राज्ञा कर्षितो देशतो बहिः। अवध्य इति निश्चित्य तस्करो निजचेतसि ॥ १९७ ॥ नगर्या जयकारो हि तस्मिन् जातो विशेषतः। तस्करकर्षणादेव कुमारोऽपि स हर्षितः ॥ १९८ ॥ नरब्रह्मोऽपि सः पश्चात् सहसाङ्कमिति जल्पिवान् । त्वमुद्वाहय सल्लग्ने मे पुत्रीं श्रीसमन्विताम् ॥ १९९ ॥ राजानं सहसाङ्कश्च प्रोचे भाग्यपुरन्दरः । साम्प्रतं नियमः सम्यग् मया कृतोऽस्ति भावतः ॥२०॥ एकदा चिन्तयामास सहसाङ्कः स्वचेतसि । मृगाको मे पतिर्वर्यः समेष्यति कदाऽत्र वै ? ॥२०१॥ क्रमेण सिंहलद्वीपात् सन्मृगाङ्कः समागतः। उपविश्य तरण्डे हि भृते वस्तुविशेषकैः ॥ २०२॥ Page #20 -------------------------------------------------------------------------- ________________ मृगाक चरित्रम् सुसुमारपुरं ज्ञात्वा रक्षयित्वा च पोतकम् । तस्मादुत्तरितः श्रेष्ठी मृगाको गुणनीरधिः ॥२०३॥ कुसुमसारस्य पुत्रो मृगाङ्कोऽत्र समागतः । कथितं सहसाङ्काग्र इति स्वानुचरेण च ॥ २०४॥ मृगाङ्ककुमरः सोऽप्युपायनं गृहीत्वा ततः । आगतो विनयं कुर्वन् गत्या तर्जितवारणः ॥ २०५॥ सहसाङ्कः स्वभारं दृष्ट्वाऽऽसनात्समुत्थितः । सन्मुखोऽपि गतस्तस्य विनयार्थ च शुद्धधीः ॥ २०६॥ यतः केनाजितानि नयनानि मृगाङ्गनानां, कश्चोत्पलेषु दलसञ्चयमातनोति । को वा करोति रुचिराङ्गरुहान् मयूरान् , को वा करोति विनयं कुलजेषु पुंसु ॥२०७॥ विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ २०८॥ इत्यूचे सहसाङ्कोऽसौ कुसुमसारनन्दनम् । तवाननं निरीक्ष्याहं हर्षितः पूर्वरागतः ॥ २०९॥ तत्कारणाद् मया मुक्तं तवार्द्धदाणमेव च । त्वां वारयाम्यहं श्रेष्ठिन्! न कार्या दाणतस्करी ॥२१०॥ लेखं विलिख्य वस्तूनि जग्राह शौकिकः शुभः । लिखनादधिकं पोते, दृष्ट्वा बभूव कोपभाक् ॥ २११॥ सद्यैनं बन्धयध्वं च श्रेष्ठिनं दाणतस्करम् । शौल्किकश्च हि भो लोका ! इत्यादिशत् स्वमानुषान् ॥ २१२॥ दृढं बवा तदादेशाद् मृगावं तस्य सेवकः । खगृहे च समानीतं मुषित्वा तत्तरण्डकम् ॥ २१३ ॥ क्रोधेनाऽरुणमाकृत्य लोचनमवदत्पुनः। यष्टिमुष्टिप्रहारैश्चैनं मारयत भो जनाः!॥ २१४ ॥ मम चित्ते महान्कोपो वर्तते भो विचक्षण! । किं करोमि परं खामि-न मोक्ष्ये त्वामतः परम् ॥२१५॥ |४ ॥९॥ Page #21 -------------------------------------------------------------------------- ________________ इत्युक्त्वा सहसाङ्कोऽसौ चचाल निजमन्दिरे । पोतेश! भोजनं रम्यं करिष्यसे हि मदगृहे ॥२१६॥ तेनोक्तं मांडवीनाथ ! वान्छितं कथितं त्वया । ततः सोपि च तत्साई भोजनाय गतः खलु ॥ २१७ ॥ यतः-अभिमतमहामानग्रन्थिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्वलचन्द्रिका । विपुलविलसलज्जावलीवितानकुठारिका, जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् ॥ २१८ ॥ सहसाङ्कः खहस्तेन चकाराऽथ सुभोजनम् । घृतपूरैः समायुक्तं प्राणिनां मधुरैः सदा ॥२१९॥ तसिहरैश्च सत्तारैः कुष्माण्डपाककैवरम् । मोददं सततं रम्यं सिंहकेसरमोदकैः ॥ २२० ॥ सर्वपक्कान्नसंयुक्तं सुराणां सुरभि ध्रुवम् । हरमशेषरोगाणां कलितं लापनश्रिया ॥ २२२ ॥ यतः-दुग्धं गोधूमचूर्ण घृतगुडसहितं नालिकेरस्य खण्डं, द्राक्षा-खर्जूर-सुण्ठि-तज-मरिचयुतं पेशलं नागपुष्पम् । पक्कं ताम्र कटाहे तलवितमतूलं पावके मन्दकान्ती, धन्या हेमन्तकाले प्रचुरघृतयुता भुञ्जते लापनश्रीः॥२२२॥ निर्मलक्षीरसत्खण्ड-प्राज्याज्यपूर्विकान्वितम् । प्रविष्टाऽन्धो-विदालिभ्यां राजितं दोषवर्जितम् ॥ २२३॥ इत्थम्भूते मनोज्ञे च क्रियमाणे सुभोजने । पूर्वः खादस्तदा प्राप्तः मृगाङ्केनाऽतिबुद्धिना ॥ २२४ ॥ तेनाखादेन चित्ते च कुमारोऽवगमत्तदा । इयं पद्मावती चास्ति किंवा नास्ति च वल्लभा ॥ २२५ ॥ या तु मया बने मुक्ता समायात्यत्र सा कथम् ? । एषस्तु शौल्किको नूनं नररूपेण दृश्यते ॥ २२६ ॥ Page #22 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम्. सो भव्यं भोजनं भुक्त्वा वचसत्यवदत्ततः। मां सहसाङ्क! मुश्चख कृपया दीनमन्दिरम् ॥ २२७॥ श्रेष्ठिनं तं कलाधाम-सहसाङ्कः प्रजल्पिवान् । यावत्त्वं जीवसि भव्य ! तावत्पा न मुच्यते ॥ २२८ ॥ मृगाङ्क ! त्वं सदा दीन-मन्तुमानसि मे भृशम् । तेनाहं ताडयिष्यामि महद्दण्डेन पाणिना ॥ २२९ ॥ श्रेष्ठिनं बन्धयित्वोळे ताडयन्तु पुरो धृतम् । एतादृशीं मुखे भीति-मदर्शयत् पुनः पुनः॥२३०॥ नृपेण निजकर्णान्ते एतत्सर्वं यदा श्रुतम् । मुश्चापितश्च वेगेन मृगाङ्कः कृपया तदा ॥ २३१॥ नृपस्य वचनान्मुक्तो मुत्कलो व्यावहारिकः । प्रतिज्ञामिति निश्चित्य न गन्तव्यं मया विना ॥ २३२॥ दासो भूत्वा मृगाङ्को हि स दैन्यमदधत् तदा । अन्यत्कृत्यानि नीचानि चकार सोऽपि सर्वदा ॥२३३॥ एकस्मिन् दिवसे श्रेष्ठी करौ नियोज्य संस्थितः । शौकिकेन तदा दृष्टो नयनोत्पन्नरागतः॥२३४ ॥ प्रसन्नचित्तं विज्ञाय विज्ञप्तिमिति सोऽकरोत् । त्वमाशु दीनसंस्त्याय-मधुना मुञ्च मां प्रति ॥ २३५॥ अहं यावत् चिरं जीवी त्वां न मुञ्चामि तावतः । मन्तुमन्दिरमध्यस्थं दुष्टधीधनधारकम् ॥ २३६ ॥ मत्पदोर्यदि त्वं श्रेष्ठिन् ! शोषयेघृतसत्पलम् । तदा त्वां सादरात्सद्यो मुञ्चामि ग्रामबन्धनात् ॥ २३७ ॥ अङ्गीचकार स श्रेष्ठी पूर्व यद् भणितं वचः । पश्चात् शय्यां महारम्यां सुप्तो हि प्रति शौल्किकः ॥२३८॥ ततः परं मृगाको हि चकार घृतमईनम् । इतः कैतवतस्तन्द्रा शौल्किकेन कृता परा ॥ २३९॥ पदस्पर्शवशादाज्यं विग्यरितं च भाजने । अथ शोषमुपैति न मृगाकेनेति चिन्तितम् ॥ २४॥ Page #23 -------------------------------------------------------------------------- ________________ 65SSACR घोरनिद्रावशीभूतं ज्ञात्वा शौल्किकमुद्धतम् । पश्चाद् मृगाङ्कश्रेष्ठिना दत्तमाज्यं मुखे भृशम् ॥ २४१॥ सहसाङ्केन सद्यस्कं ततः क्रोधेन जल्पितम् । रे !रे ! रङ्क महारङ्क ! जठरस्यैव पूरकः ॥ २४२॥ बड्वाजलिं मृगाको हि जल्पति प्रतिदुःखतः। तेऽहं महापराधीनो यथा रुचिस्तथा कुरु ॥ २४३॥ सहसाङ्कस्तदा जातः पद्मावती मनोहरा । रचयित्वा च शृङ्गारं नवसप्तादिकमद्भुतम् ॥ २४४॥ यतः-आदौ मजनचारुचीरतिलकं नेत्राञ्जनं कुण्डले । नासामौक्तिकपुष्पहारधवलं झङ्कारको नूपुरौ ॥ अङ्गे चन्दनलेपकं कुचमणिः क्षुद्रावली घण्टिका । ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥ २४५॥ पश्चात्प्रणम्य सा बाला मृगाङ्कमिति जल्पिवान् । तेऽहं महापराधीनी पादोपानहसदृशी ॥ २४६ ॥ यतः-गोरी तेतो मान करि जेतो अंग समाय । जो लष्यणीया नही तो पहरीजइ पाय ॥ २४७॥ परस्परं स्ववृत्तान्तं श्रुत्वा सन्तोषमापतुः । नृपोऽप्येति प्रवृत्तिं च श्रुत्वा हर्षमुपागतः ॥ २४८ ॥ हर्षेण तो सुखं पश्चाद् भोजयामासतुर्मिथः । नृपेण चिन्तितं चित्ते सुतां ददामि संप्रति ॥ २४९ ॥ धराधीशेन पुत्री सा समं तेन विवाहिता । अर्द्ध राज्यं च रत्नानि वर्णानि च ददौ ततः ॥ २५॥ दिनानि कत्यपि स्थित्वा वाराणसी चचाल सः । प्राप्तं च तत्पुरं रम्यं स्तोकैरेव दिनैरपि ॥ २५१ ॥ मातृपित्रोः पदद्वन्द्वं नत्वा नत्वाऽतिरागतः । चकार मिलनं पश्चात् मृगाहो हि परस्परम् ॥ २५२ ॥ E AK Page #24 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम्. ॥११॥ खवेश्मनि सुखं भुञ्जन् श्रेष्ठः कुसुमसारसूः । तस्थिवान् ललनाद्वन्द्वैः संयुतः स्नेहभाजनैः ॥ २५३॥ इतश्च तस्यां वाराणस्यां मकरध्वजो नृपः। वर्त्तते विश्वविश्वेशः पुत्ररत्नविवर्जितः ॥ २५४ ॥ यतः-घरअंगणंमि मसाणं जत्थ न दीसति धूलिधूसरच्छायं । अडंति पडंति रडंतडाइं दो तिन डिभाई न दीसंति ॥ २५५॥ एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवति किं बहुभिः प्रसूतैः । तारागणः समुदितोऽप्यसमर्थ एव, चन्द्रः प्रकाशयति दिग्मुखमण्डलानि ॥ २५६ ॥ तेन राज्ञा मृगाङ्कस्य वृत्तान्तो मूलतः श्रुतः । तदेति चिन्ततं चित्ते मत्पुत्रीशो भवत्वयं ॥ २५७ ॥ विचिन्त्येति नृपेणैवं खराज्यं च निजां सुताम् । अत्याडम्बरतो दत्त्वा स्वयं हि व्रतमाददे ॥ २५८ ॥ पश्चान्मृगाङ्कभूपाल पालयामास राजतां । अनेकभटसन्दोहैः संयुतः सारविक्रमः॥ २५९ ॥ कियत्यपि गते वर्षे ग्रामोपान्तवनान्तरे । आगता मतिपूर्णाश्च मतिसागरसूरयः ॥ २६॥ तदेत्युक्तं वनाधीशैर्गत्वा मृगाङ्कसन्निधौ । उत्तरिता बने सन्ति मतिसागरसूरयः ॥ २६१॥ तच्छ्रुत्वा हृष्टमनसा मृगाङ्केनैव सत्वरम् । दत्तानि वनपालाय वस्त्राणि भूषणानि च ॥ २६२ ॥ ततश्चचाल तत्स्थानात् भूपालोऽद्भुतभावतः । संयुतः सर्वलोकौघैर्वन्दित्वा निषसाद सः ॥ २६३ ॥ पश्चात्सूरिमंहारम्या-मारेभे धर्मदेशनाम् । श्रोत्रयोः सुखदां नित्यं भव्याम्भोरुहभासिनीम् ॥ २६४ ॥ ॥११॥ Page #25 -------------------------------------------------------------------------- ________________ AAMSALA देशनान्ते मृगाकोऽपि पप्रच्छ खामिनं प्रति । कथं लब्धा गता लक्ष्मीः पुनःप्राति कारणं ॥२६५॥ खाम्यूचे भववृत्तान्तं पुरे गुणपुराभिधे । हंसपालाभिधो क्षत्री पत्नी लीलावती वरा ॥ २६६ ॥ एकस्मिन् वासरे त्वं हि परदेशेषु जग्मिवान् । धनोपार्जनकार्यार्थ-मुत्कलाप्य मृगेक्षणाम् ॥ २६७ ॥ भ्रमितः सर्वदेशे त्वं नातं किंचिद् धनं त्वया । पश्चात् त्वं प्रति संस्त्यायं चलितः प्रेमप्रेरितः॥२६८ ॥ मार्गेऽप्यागच्छता दृष्टः श्वेतपुष्पपलाशकः। तन्मूले खनिते आप्तं भाण्डं द्रव्यसमन्वितम् ॥ २६९॥ क्रमेण सदने गत्वा कान्तायै भाण्डमर्पितम् । सा प्राप परमानन्दं विवेकविनयान्विता ॥ २७० ॥ तया हि परमानं च कृतं भोजनमुत्तमम् । तस्मिन् मासोपवासी चा-ऽऽगतः समनि पुण्यतः ॥ २७१ ॥ ततो भूयोऽर्थयित्वा च प्रदत्तं क्षीरभोजनम् । पश्चादिति कुभावश्च जातो दत्तं मया वृथा ॥ २७२॥ हंसपालेन तेनापि कुभाव इति चिन्तितः। धिक् कान्ते ! मां हि मुक्त्वा च प्रदत्तं भोजनं मुनेः ॥२७३॥ पुनर्द्वन्द्वस्य सद्भावः समुत्पन्नः समं हृदि । इदं वयं कृतं कान्ते ! परस्परं प्रशंसतः ॥ २७४ ॥ सम्यक्त्वमूलमापन्नौ क्रमेण गुरुसन्निधौ । धर्मकृत्यान्वितौ जातौ द्वावपि सततं तदा ॥२७५ ॥ ततस्तौ च सुरागारे पालयित्वा निजायुषम् । जग्मतुद्वौं सदाकारौ पूर्वपुण्यानुभावतः ॥ २७६ ॥ देवलोकान्मृगाङ्कत्वे-नोत्पन्नः श्रेष्ठिनो गृहे । लीलावत्यपि संजाता श्रेष्ठिनः सदने सुता ॥ २७७ ॥ Page #26 -------------------------------------------------------------------------- ________________ मृगांक चरित्रम्. // 12 // पूर्वरागेण सम्बन्धो मिलितो हि परस्परम् / पात्रदानात्सुखमास-मसुखं तु कुभावतः // 278 // पुनः सुखं हि सद्भावात् संप्राप्तं वसुधाधिप! / देशनामिति श्रुत्वा स धर्म चकार भावतः // 279 // जीर्णोद्धारप्रतिष्ठादि जिनबिम्ब-जिनालयम् / इत्यादिधर्मकृत्यानि चकार धरणीपतिः // 280 // एकस्मिन् समये च्युत्वा द्वादशे हि दिवालये / द्वावपि दुष्टसंसाराद् जग्मतुः सुखहेतवे // 281 // पुनः खर्गात् समागत्य भुक्त्वा च मानुषं भवं / मृगाको मुक्तिगेहे हि मानिन्या सह यास्यति // 282 // एवं विभाव्य भो भव्याः! दानं दत्त सुभावतः / पात्रापात्रे यथा शक्त्या निदानं सुखसन्ततेः॥ 283 // श्रीमत्तपगणगगने गगनमणिविजयसेनसूरीशः / तस्यानुक्रमपट्टे गुरुर्विजयदेवसूरिवरः॥ 284 // तद्गच्छे सततं जयन्तु सुखदाः श्रीभानुचन्द्राश्चिरम् / षण्मासाऽभयदायकाः क्षितिपतिं दिल्लीपतिं पेशलम् // सद्वाग्भिः प्रतिबोध्य शास्त्रजलधेः पारंगता भूतले / तीर्थेशाऽकरकारका गतगदाः प्राग्भारपुण्योत्कराः 285 तस्य वयंपदाम्भोज-शिलीमुखानुकारिणा। सपर्यासक्तचित्तेन ऋधिचन्द्रेण निर्मितम् // 286 // इदं विश्वे प्रसिद्धस्य भावाम्भोरुहभाखतः। सच्चरित्रं मृगाङ्कस्य श्लोकाभ्यासनहेतवे // 287 // पण्डितम्राजकोटीरैरुदयचन्द्रधीधनैः / शुद्धीकृतमिदं सम्यक् चरित्रं चित्तसात्कृतम् // 288 // // इति श्रीमृगाङ्कचरित्रं समाप्तम् / / // 12 //