________________
इति चिन्तयतः प्रीतिर्बभूव मनसा विना । कलाकुशलतां सम्यक् तौ प्राप्तौ गुरुभक्तितः ॥४७॥ यतः-“वाति कीई कवण गुण जिहां नवि मलिउं मन्न । मन्नविहुणो प्रेमरस जाणे अलुणो अन्न ॥४८॥
मनु तोलो तनु ताजवी हे सखी ! नेह केता मण होय । लांगते लेखुं नहीं टूटइ टांक न होय" ॥४९॥ पद्मावतीमृगाङ्कौ तौ खखधानि गतावुभौ । पठित्वा सर्वशास्त्राणि गुरुनिर्देशतो मुदा ॥५०॥ क्रमेण यौवनं प्राप कुमारः कमलेक्षणः। पिता तस्य कृते कन्यां लोकयामास तत्पुरे ॥५१॥ एकस्मिन् दिवसे श्रेष्ठी पद्मावतीं ददर्श च । समग्रगुणमञ्जूषां शीलालङ्कारधारिणीम् ॥५२॥ धनञ्जयसमीपे स खाङ्गजाथै ययाच ताम् । कुमारसदृशां चैव वयसा विद्यया गुणैः ॥ ५३॥ धनञ्जयस्तद्वचनमङ्गीचकार निश्चितम् । शुभ मुहूर्तमालोक्य विवाहः क्रियते ध्रुवम् ॥ ५४॥ तयोः शुभेऽह्नि विप्रेण विवाहस्तत्र मेलितः । पञ्चशब्दादिवादित्रैः गीतनृत्यैः पुरस्सरम् ॥५५॥ गजतुरगसङ्घातैः सुखासनैश्च सद्वजैः । याचकत्रजसद्दानैः तूर्यसन्दोहसुन्दरैः॥ ५६ ॥ अनेकोत्सवसन्दोहश्चक्रतः श्रेष्ठिशेखरौ। तयोननं शुभे लग्ने पाणिग्रहणमद्भुतम् ॥ ५७॥ युग्मम् । कृतोद्वाहं मनोऽभीष्टं समानीता खसद्मनि । हर्ष प्रापेति स शावः फलितं मम वाञ्छितम् ॥ ५८॥ तावेव दम्पती तत्र भोजयामासतुः सुखम् । प्रसुप्तावेकदा खैरं रजन्यां सप्तमे गृहे ॥ ५९॥