________________
मृगांक
| चरित्रम्
॥२॥
एकस्मिन्समये तस्मिन्ननध्यायः समागतः । छात्रपठनशालायां स्थिता पद्मावती खयम् ॥३४॥ पुत्रः कुसुमसारस्य क्रीडां कर्तुं गृहे गतः। स्मृत्वा पद्मावती चित्ते चलितः स्नेहनोदितः ॥ ३५ ॥ व्रजन् मार्गे च मिलितः धनञ्जयो धनतः । अशीतिकपर्दान्तस्मै स ददौ खसुताकृते ॥३६॥ गृहीतस्तेन कूष्माण्डपाको वर्त्मनि गच्छता । कथयिष्यति सा किं मामिति विचिन्त्य भक्षितः ॥ ३७॥ पद्मावतीसमीपे स भक्षयित्वा गतस्ततः । तया प्रश्नः कृतस्तस्य, भक्षितं भोस्त्वयाद्य किम् ? ॥ ३८॥ कुमारस्तामुवाचैवं दत्ताशीतिकपर्दकाः । तव पित्रा त्वदर्थं च मम हस्तेऽतिरागतः ॥ ३९ ॥ विक्रीय तान् मया सर्वान् लात्वा कूष्माण्डपाककम् । भक्षितः खादतो नूनं भुक्त्वा चाहमिहागतः॥४०॥ तच्छुत्वा कुपिता सा चोवाच वक्रेण तत्पुरः। नैतत् कार्य हि मित्राणामेकाकित्वेन भोजनम् ॥४१॥ पश्चादुवाच सा बाला मृगाङ्ककुमरं प्रति । पुनः किं ते मया वाच्यं खोदरं भरितं त्वया ॥४२॥ भक्ष्यलेशोऽपि मह्यं च न दत्तस्त्वयकाऽधम ! । शिक्षां ददामि किं ते च नूनं मैत्र्यात् पुनः पुनः॥४३॥ यदा भवन्ति मत्पार्थे कपर्दाः कुमर ! शृणु। तदाहं भूषणं रम्यमकार्ष कर्णकुण्डलम् ॥४४॥ श्रुत्वेति वचनं तस्याः खेदखिन्नोऽभवच्छिशुः । अनया मयि मित्रत्वं साम्प्रतं न विचारितम् ॥४५॥ विमृश्यत्येव स शावो मौनं कृत्वा स्थितस्ततः। भविष्यति मदायत्ता शिक्षा दास्ये यदा तदा ॥४६॥
॥
२
॥