________________
इत्युक्त्वा सहसाङ्कोऽसौ चचाल निजमन्दिरे । पोतेश! भोजनं रम्यं करिष्यसे हि मदगृहे ॥२१६॥
तेनोक्तं मांडवीनाथ ! वान्छितं कथितं त्वया । ततः सोपि च तत्साई भोजनाय गतः खलु ॥ २१७ ॥ यतः-अभिमतमहामानग्रन्थिप्रभेदपटीयसी, गुरुतरगुणग्रामाम्भोजस्फुटोज्वलचन्द्रिका ।
विपुलविलसलज्जावलीवितानकुठारिका, जठरपिठरी दुष्पूरेयं करोति विडम्बनाम् ॥ २१८ ॥ सहसाङ्कः खहस्तेन चकाराऽथ सुभोजनम् । घृतपूरैः समायुक्तं प्राणिनां मधुरैः सदा ॥२१९॥ तसिहरैश्च सत्तारैः कुष्माण्डपाककैवरम् । मोददं सततं रम्यं सिंहकेसरमोदकैः ॥ २२० ॥
सर्वपक्कान्नसंयुक्तं सुराणां सुरभि ध्रुवम् । हरमशेषरोगाणां कलितं लापनश्रिया ॥ २२२ ॥ यतः-दुग्धं गोधूमचूर्ण घृतगुडसहितं नालिकेरस्य खण्डं, द्राक्षा-खर्जूर-सुण्ठि-तज-मरिचयुतं पेशलं नागपुष्पम् ।
पक्कं ताम्र कटाहे तलवितमतूलं पावके मन्दकान्ती, धन्या हेमन्तकाले प्रचुरघृतयुता भुञ्जते लापनश्रीः॥२२२॥ निर्मलक्षीरसत्खण्ड-प्राज्याज्यपूर्विकान्वितम् । प्रविष्टाऽन्धो-विदालिभ्यां राजितं दोषवर्जितम् ॥ २२३॥ इत्थम्भूते मनोज्ञे च क्रियमाणे सुभोजने । पूर्वः खादस्तदा प्राप्तः मृगाङ्केनाऽतिबुद्धिना ॥ २२४ ॥ तेनाखादेन चित्ते च कुमारोऽवगमत्तदा । इयं पद्मावती चास्ति किंवा नास्ति च वल्लभा ॥ २२५ ॥ या तु मया बने मुक्ता समायात्यत्र सा कथम् ? । एषस्तु शौल्किको नूनं नररूपेण दृश्यते ॥ २२६ ॥