Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 19
________________ AASAREENGACASARSA घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो, वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् । तथाऽप्येकोऽगस्त्यः सकलमपिबद् वारिधिजलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ १९१ ॥ सुभटश्रेणिकोटीरः कुमारो नृपसन्निधौ । प्रत्यूपसमये गत्वा सद्यस्तावार्पयद् भृशम् ॥ १९२ ॥ यत्तस्करेण तद्रामे गृहीतं वस्तु विश्रुतम् । तत्सर्व जनतावृन्दैः गृहीतं श्रीनृपाज्ञया ॥ १९३॥ जनाः सर्वेऽपि सन्तुष्टाः कुमारायाशिषं ददुः । दृष्ट्वा तस्य कुमारस्य कार्यमेतद्रीयसम् ॥ १९४ ॥ खर्यऽवस्वापिनी विद्या तालकोद्घाटनी तथा । तथा रूपकरी विद्या विदुषां वल्लभा सदा ॥ १९५॥ चतस्रस्तस्करादेता विद्या जग्राह तत्क्षणम् । कुमारसहसाको हि सत्त्ववान् सुजनप्रियः ॥ १९६ ॥ कुमारानुग्रहाद्राज्ञा कर्षितो देशतो बहिः। अवध्य इति निश्चित्य तस्करो निजचेतसि ॥ १९७ ॥ नगर्या जयकारो हि तस्मिन् जातो विशेषतः। तस्करकर्षणादेव कुमारोऽपि स हर्षितः ॥ १९८ ॥ नरब्रह्मोऽपि सः पश्चात् सहसाङ्कमिति जल्पिवान् । त्वमुद्वाहय सल्लग्ने मे पुत्रीं श्रीसमन्विताम् ॥ १९९ ॥ राजानं सहसाङ्कश्च प्रोचे भाग्यपुरन्दरः । साम्प्रतं नियमः सम्यग् मया कृतोऽस्ति भावतः ॥२०॥ एकदा चिन्तयामास सहसाङ्कः स्वचेतसि । मृगाको मे पतिर्वर्यः समेष्यति कदाऽत्र वै ? ॥२०१॥ क्रमेण सिंहलद्वीपात् सन्मृगाङ्कः समागतः। उपविश्य तरण्डे हि भृते वस्तुविशेषकैः ॥ २०२॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26