Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
View full book text
________________
65SSACR
घोरनिद्रावशीभूतं ज्ञात्वा शौल्किकमुद्धतम् । पश्चाद् मृगाङ्कश्रेष्ठिना दत्तमाज्यं मुखे भृशम् ॥ २४१॥ सहसाङ्केन सद्यस्कं ततः क्रोधेन जल्पितम् । रे !रे ! रङ्क महारङ्क ! जठरस्यैव पूरकः ॥ २४२॥ बड्वाजलिं मृगाको हि जल्पति प्रतिदुःखतः। तेऽहं महापराधीनो यथा रुचिस्तथा कुरु ॥ २४३॥
सहसाङ्कस्तदा जातः पद्मावती मनोहरा । रचयित्वा च शृङ्गारं नवसप्तादिकमद्भुतम् ॥ २४४॥ यतः-आदौ मजनचारुचीरतिलकं नेत्राञ्जनं कुण्डले । नासामौक्तिकपुष्पहारधवलं झङ्कारको नूपुरौ ॥
अङ्गे चन्दनलेपकं कुचमणिः क्षुद्रावली घण्टिका । ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ॥ २४५॥
पश्चात्प्रणम्य सा बाला मृगाङ्कमिति जल्पिवान् । तेऽहं महापराधीनी पादोपानहसदृशी ॥ २४६ ॥ यतः-गोरी तेतो मान करि जेतो अंग समाय । जो लष्यणीया नही तो पहरीजइ पाय ॥ २४७॥
परस्परं स्ववृत्तान्तं श्रुत्वा सन्तोषमापतुः । नृपोऽप्येति प्रवृत्तिं च श्रुत्वा हर्षमुपागतः ॥ २४८ ॥ हर्षेण तो सुखं पश्चाद् भोजयामासतुर्मिथः । नृपेण चिन्तितं चित्ते सुतां ददामि संप्रति ॥ २४९ ॥ धराधीशेन पुत्री सा समं तेन विवाहिता । अर्द्ध राज्यं च रत्नानि वर्णानि च ददौ ततः ॥ २५॥ दिनानि कत्यपि स्थित्वा वाराणसी चचाल सः । प्राप्तं च तत्पुरं रम्यं स्तोकैरेव दिनैरपि ॥ २५१ ॥ मातृपित्रोः पदद्वन्द्वं नत्वा नत्वाऽतिरागतः । चकार मिलनं पश्चात् मृगाहो हि परस्परम् ॥ २५२ ॥
E AK

Page Navigation
1 ... 21 22 23 24 25 26