Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
View full book text
________________
AAMSALA
देशनान्ते मृगाकोऽपि पप्रच्छ खामिनं प्रति । कथं लब्धा गता लक्ष्मीः पुनःप्राति कारणं ॥२६५॥ खाम्यूचे भववृत्तान्तं पुरे गुणपुराभिधे । हंसपालाभिधो क्षत्री पत्नी लीलावती वरा ॥ २६६ ॥ एकस्मिन् वासरे त्वं हि परदेशेषु जग्मिवान् । धनोपार्जनकार्यार्थ-मुत्कलाप्य मृगेक्षणाम् ॥ २६७ ॥ भ्रमितः सर्वदेशे त्वं नातं किंचिद् धनं त्वया । पश्चात् त्वं प्रति संस्त्यायं चलितः प्रेमप्रेरितः॥२६८ ॥ मार्गेऽप्यागच्छता दृष्टः श्वेतपुष्पपलाशकः। तन्मूले खनिते आप्तं भाण्डं द्रव्यसमन्वितम् ॥ २६९॥ क्रमेण सदने गत्वा कान्तायै भाण्डमर्पितम् । सा प्राप परमानन्दं विवेकविनयान्विता ॥ २७० ॥ तया हि परमानं च कृतं भोजनमुत्तमम् । तस्मिन् मासोपवासी चा-ऽऽगतः समनि पुण्यतः ॥ २७१ ॥ ततो भूयोऽर्थयित्वा च प्रदत्तं क्षीरभोजनम् । पश्चादिति कुभावश्च जातो दत्तं मया वृथा ॥ २७२॥ हंसपालेन तेनापि कुभाव इति चिन्तितः। धिक् कान्ते ! मां हि मुक्त्वा च प्रदत्तं भोजनं मुनेः ॥२७३॥ पुनर्द्वन्द्वस्य सद्भावः समुत्पन्नः समं हृदि । इदं वयं कृतं कान्ते ! परस्परं प्रशंसतः ॥ २७४ ॥ सम्यक्त्वमूलमापन्नौ क्रमेण गुरुसन्निधौ । धर्मकृत्यान्वितौ जातौ द्वावपि सततं तदा ॥२७५ ॥ ततस्तौ च सुरागारे पालयित्वा निजायुषम् । जग्मतुद्वौं सदाकारौ पूर्वपुण्यानुभावतः ॥ २७६ ॥ देवलोकान्मृगाङ्कत्वे-नोत्पन्नः श्रेष्ठिनो गृहे । लीलावत्यपि संजाता श्रेष्ठिनः सदने सुता ॥ २७७ ॥

Page Navigation
1 ... 23 24 25 26