Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 24
________________ मृगांक चरित्रम्. ॥११॥ खवेश्मनि सुखं भुञ्जन् श्रेष्ठः कुसुमसारसूः । तस्थिवान् ललनाद्वन्द्वैः संयुतः स्नेहभाजनैः ॥ २५३॥ इतश्च तस्यां वाराणस्यां मकरध्वजो नृपः। वर्त्तते विश्वविश्वेशः पुत्ररत्नविवर्जितः ॥ २५४ ॥ यतः-घरअंगणंमि मसाणं जत्थ न दीसति धूलिधूसरच्छायं । अडंति पडंति रडंतडाइं दो तिन डिभाई न दीसंति ॥ २५५॥ एकोऽपि यः सकलकार्यविधौ समर्थः, सत्त्वाधिको भवति किं बहुभिः प्रसूतैः । तारागणः समुदितोऽप्यसमर्थ एव, चन्द्रः प्रकाशयति दिग्मुखमण्डलानि ॥ २५६ ॥ तेन राज्ञा मृगाङ्कस्य वृत्तान्तो मूलतः श्रुतः । तदेति चिन्ततं चित्ते मत्पुत्रीशो भवत्वयं ॥ २५७ ॥ विचिन्त्येति नृपेणैवं खराज्यं च निजां सुताम् । अत्याडम्बरतो दत्त्वा स्वयं हि व्रतमाददे ॥ २५८ ॥ पश्चान्मृगाङ्कभूपाल पालयामास राजतां । अनेकभटसन्दोहैः संयुतः सारविक्रमः॥ २५९ ॥ कियत्यपि गते वर्षे ग्रामोपान्तवनान्तरे । आगता मतिपूर्णाश्च मतिसागरसूरयः ॥ २६॥ तदेत्युक्तं वनाधीशैर्गत्वा मृगाङ्कसन्निधौ । उत्तरिता बने सन्ति मतिसागरसूरयः ॥ २६१॥ तच्छ्रुत्वा हृष्टमनसा मृगाङ्केनैव सत्वरम् । दत्तानि वनपालाय वस्त्राणि भूषणानि च ॥ २६२ ॥ ततश्चचाल तत्स्थानात् भूपालोऽद्भुतभावतः । संयुतः सर्वलोकौघैर्वन्दित्वा निषसाद सः ॥ २६३ ॥ पश्चात्सूरिमंहारम्या-मारेभे धर्मदेशनाम् । श्रोत्रयोः सुखदां नित्यं भव्याम्भोरुहभासिनीम् ॥ २६४ ॥ ॥११॥

Loading...

Page Navigation
1 ... 22 23 24 25 26