Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 22
________________ मृगांक चरित्रम्. सो भव्यं भोजनं भुक्त्वा वचसत्यवदत्ततः। मां सहसाङ्क! मुश्चख कृपया दीनमन्दिरम् ॥ २२७॥ श्रेष्ठिनं तं कलाधाम-सहसाङ्कः प्रजल्पिवान् । यावत्त्वं जीवसि भव्य ! तावत्पा न मुच्यते ॥ २२८ ॥ मृगाङ्क ! त्वं सदा दीन-मन्तुमानसि मे भृशम् । तेनाहं ताडयिष्यामि महद्दण्डेन पाणिना ॥ २२९ ॥ श्रेष्ठिनं बन्धयित्वोळे ताडयन्तु पुरो धृतम् । एतादृशीं मुखे भीति-मदर्शयत् पुनः पुनः॥२३०॥ नृपेण निजकर्णान्ते एतत्सर्वं यदा श्रुतम् । मुश्चापितश्च वेगेन मृगाङ्कः कृपया तदा ॥ २३१॥ नृपस्य वचनान्मुक्तो मुत्कलो व्यावहारिकः । प्रतिज्ञामिति निश्चित्य न गन्तव्यं मया विना ॥ २३२॥ दासो भूत्वा मृगाङ्को हि स दैन्यमदधत् तदा । अन्यत्कृत्यानि नीचानि चकार सोऽपि सर्वदा ॥२३३॥ एकस्मिन् दिवसे श्रेष्ठी करौ नियोज्य संस्थितः । शौकिकेन तदा दृष्टो नयनोत्पन्नरागतः॥२३४ ॥ प्रसन्नचित्तं विज्ञाय विज्ञप्तिमिति सोऽकरोत् । त्वमाशु दीनसंस्त्याय-मधुना मुञ्च मां प्रति ॥ २३५॥ अहं यावत् चिरं जीवी त्वां न मुञ्चामि तावतः । मन्तुमन्दिरमध्यस्थं दुष्टधीधनधारकम् ॥ २३६ ॥ मत्पदोर्यदि त्वं श्रेष्ठिन् ! शोषयेघृतसत्पलम् । तदा त्वां सादरात्सद्यो मुञ्चामि ग्रामबन्धनात् ॥ २३७ ॥ अङ्गीचकार स श्रेष्ठी पूर्व यद् भणितं वचः । पश्चात् शय्यां महारम्यां सुप्तो हि प्रति शौल्किकः ॥२३८॥ ततः परं मृगाको हि चकार घृतमईनम् । इतः कैतवतस्तन्द्रा शौल्किकेन कृता परा ॥ २३९॥ पदस्पर्शवशादाज्यं विग्यरितं च भाजने । अथ शोषमुपैति न मृगाकेनेति चिन्तितम् ॥ २४॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26