Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
View full book text
________________
मृगाक
चरित्रम्
सुसुमारपुरं ज्ञात्वा रक्षयित्वा च पोतकम् । तस्मादुत्तरितः श्रेष्ठी मृगाको गुणनीरधिः ॥२०३॥ कुसुमसारस्य पुत्रो मृगाङ्कोऽत्र समागतः । कथितं सहसाङ्काग्र इति स्वानुचरेण च ॥ २०४॥ मृगाङ्ककुमरः सोऽप्युपायनं गृहीत्वा ततः । आगतो विनयं कुर्वन् गत्या तर्जितवारणः ॥ २०५॥
सहसाङ्कः स्वभारं दृष्ट्वाऽऽसनात्समुत्थितः । सन्मुखोऽपि गतस्तस्य विनयार्थ च शुद्धधीः ॥ २०६॥ यतः केनाजितानि नयनानि मृगाङ्गनानां, कश्चोत्पलेषु दलसञ्चयमातनोति ।
को वा करोति रुचिराङ्गरुहान् मयूरान् , को वा करोति विनयं कुलजेषु पुंसु ॥२०७॥ विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम् ॥ २०८॥ इत्यूचे सहसाङ्कोऽसौ कुसुमसारनन्दनम् । तवाननं निरीक्ष्याहं हर्षितः पूर्वरागतः ॥ २०९॥ तत्कारणाद् मया मुक्तं तवार्द्धदाणमेव च । त्वां वारयाम्यहं श्रेष्ठिन्! न कार्या दाणतस्करी ॥२१०॥ लेखं विलिख्य वस्तूनि जग्राह शौकिकः शुभः । लिखनादधिकं पोते, दृष्ट्वा बभूव कोपभाक् ॥ २११॥ सद्यैनं बन्धयध्वं च श्रेष्ठिनं दाणतस्करम् । शौल्किकश्च हि भो लोका ! इत्यादिशत् स्वमानुषान् ॥ २१२॥ दृढं बवा तदादेशाद् मृगावं तस्य सेवकः । खगृहे च समानीतं मुषित्वा तत्तरण्डकम् ॥ २१३ ॥ क्रोधेनाऽरुणमाकृत्य लोचनमवदत्पुनः। यष्टिमुष्टिप्रहारैश्चैनं मारयत भो जनाः!॥ २१४ ॥ मम चित्ते महान्कोपो वर्तते भो विचक्षण! । किं करोमि परं खामि-न मोक्ष्ये त्वामतः परम् ॥२१५॥
|४
॥९॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26