Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 13
________________ सर्हाणि समानीय, कुमाराय च सा ददौ । कृतस्तेन नरमानामाङ्कितः सुव्यञ्जनः ॥ १२१ ॥ इत्युक्त्वा स ददौ तस्या हस्ते ध्वजनकं मुदा । पञ्चशतैश्च दीनारैः विक्रेयः षोडशाधिकैः ॥ १२२ ॥ विक्रेयार्थ गृहीत्वा सा गता व्यक्षमकं मुदा । बदन्ती मालिनी मूल्यं चतुष्पथे जनाकुले ॥ १२३ ॥ जनाः पुरस्य तत्पार्श्वे दर्शमार्थ समागताः । एकः करे गृहीत्वा तं पश्यति स्म निरर्थकम् ॥ १२४ ॥ पप्रच्कस्तस्य मूल्वं वायुं क्षिपति कश्चन । वदत्येको न गृह्णामि हास्यमेके प्रकुर्वति ॥ १२५ ॥ इयं जाता हि प्रथिला वदन्त्येते मिथो जमाः । यदास्ति द्रव्यमेतच्च प्राप्यन्ते व्यञ्जमोत्कराः ॥ १२६ ॥ एकस्व हृदये जातमाश्वर्ये बहुमूल्यतः । कथितस्तेन वृत्तान्तः नरब्रखनृपाय च ॥ १२७ ॥ स तामाकारयामास कौतुकाद् नृपतिर्जवात् । साऽपि गत्वा स्थिता पार्श्वे प्रणम्य नृपतिं च तम् ॥ १२८ ॥ तं स्वनामाङ्कितं दृष्ट्वा व्यञ्जनं हर्षितो नृपः । आपृच्छय मालिनीं मूल्यं द्विगुणं दत्त्वाम् नृपः ॥ १२९ ॥ पुनः पप्रच्छतां राजा निर्मितः केन व्यञ्जनः । मालिन्यूचे महीनाथ ! वैदेशिकोऽस्ति महे ॥ १३० ॥ रूपलावण्यसंपन्नो विद्यया कलितो युवा । तेनायं निर्मितो रम्यस्तव नामसमन्वितः ॥ १३१ ॥ युग्मम् ॥ श्रुत्वस्याकारयामास तं कुमारं नराधिपः । पुष्पलावीगृहात्सोऽप्यागत्याऽऽननाम तं शिरः ॥ १३२ ॥ विद्यावन्तं विदित्वा तं नरब्रह्मनराधिपः । मुमोचात्माङ्गजान् सद्यस्तत्पार्श्वे पठनाय च ॥ १३३ ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26