Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
View full book text
________________
मृगांक॥ ५ ॥
afrat कथवित्वेमां वचनाचलितः शठः । ज्ञात्वेति शासनदेव्या तत्पोतः खण्डशः कृतः ॥ १०८ ॥ सावधूः फलकं लब्ध्वा प्रोतरन्ती पयोनिधिम् । उल्लालिता गजेन्द्रेण झुण्डवा सुरवर्त्मनि ॥ १०९ ॥ विद्याधरविमाने सा पतितातीच सुन्दरी । उवाच कार्मुकं वाक्यं तस्मा विद्याधराधिपः ॥ ११० ॥ विद्याधरं च सा बाला वचसा प्रत्यबोधयत् । स शीलादिगुणैस्तुष्टस्तिस्रो विद्या ददौ वराः ॥ १११ ॥ यतः - स्रीलं उत्तमं वित्तं सीलं आरोग्गकारणं परमं । सीलं भोगनिहाणं सीलं ठाणं गुणगणाणं ॥ ११२ ॥ अष्टकरण विद्यां परविद्याविनाशनीम् । अन्यरूपकरीं चैव सापि जग्राह तत्क्षणे ॥ ११३ ॥ अहं मुञ्चामि कुत्र त्वां वाले ! कथय मत्पुरः । तयोक्तं सुसुमाराख्यपुरे मुञ्च महाशय ! ॥ ११४ ॥ स बालां तत्पुरोधाने मुक्त्वा खसदने गतः । साऽन्वरूपपरावर्त्त्या विद्यया पुरुषोऽभवत् ॥ ११५ ॥ सहसाङ्केति नामाऽसौ भूत्वा जगाम तत्पुरे । पुष्पलावीगृहे तस्थौ लीलया क्रीडयन् भृशम् ॥ ११६ ॥ नगरस्य जनाः सर्वे आयान्ति तस्य संनिधौ । सोऽपि समस्तशास्त्राणि सर्वेषां वदति स्फुटम् ॥ मालिनीसदमे तिष्ठन्मे जाता बहवो दिनाः । विना द्रव्येण मद्भक्तिरनया क्रियते भृशम् ॥ ११८ ॥ कयाचित् कलवा कृत्वा द्रव्यं ददामि तत्करे । इति मत्वा करे तस्था आर्पयच्च कपर्दकान् ॥ ११९ ॥ उवाचेति भृशं श्रेष्ठिनन्दमो मारविग्रहः । मत्कपर्दाम् गृहीत्वा त्वं बर्हाण्यानव मालिनि ! ॥ १२० ॥
११७ ॥
चरित्रम्.
॥ ५ ॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26