Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay

View full book text
Previous | Next

Page 15
________________ शरीरं विगताकारमनुखारविवर्जितम् । यदिदं जायते रूपं तत्ते भवतु सर्वदा ॥ १४२ ॥ अपरेणोक्तम्-श्रीरिति । पुनरेकेनोक्तम्आधेन हीनं जलधावश्यं, मध्येन हीनं भुवि वर्णनीयम् । अन्येन हीनं धिनुते शरीरं, यस्याभिधानं स जिनः अन्येनोत्तरं दत्तम्-शीतल इति [श्रिये वः। पुनः कश्चिदुवाच-जटिलोऽपि न च ब्रह्मा त्रिनेत्रो नैव शंकरः। अम्बुधरो नैव मेघो वनवासी नैव तापसः चतुर्थनोत्तरं दत्तम्-नालिकेरमिति । इति शास्त्रविनोदं स दृष्ट्वा निजाङ्गजन्मनाम् । हर्षितस्तमुवाचैवं सहसाङ्घ धराधवः ॥ १४५॥ तुष्टोऽहं त्वयि सत्प्राज्ञ ! याचख वरमीप्सितम् । ययाचे शौल्किकत्वं स ददी राजापि तत्क्षणम् ॥ १४६ ॥ शौकिकत्वं गृहीत्वा स खानुचरान् प्रजल्पति । अर्द्धदाणं मया मुक्तं तचौर्य त्याज्यमङ्गिभिः ॥ १४७ ॥ इत्यादिघोषणां कृत्वा कुमारस्तत्र तस्थिवान् । सुखेन खाधिकारं च पालयामास तत्पुरे ॥ १४८ ॥ अथ तस्मिन्पुरे चौरः समागत्य निरन्तरम् । चौयं करोति निःशङ्को दुर्जयो दिव्यविद्यया ॥ १४९ ॥ एकदेति महीपालो विज्ञप्तो पुरवासिभिः । अस्माभिश्चौरभीत्या च पुरे स्थातुं न शक्यते ॥ १५॥ मृगांक. २४

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26