Book Title: Mrugank Charitram
Author(s): Ruddhichandra Yati
Publisher: Nirnaysagar Mudranalay
View full book text
________________
चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ ९७ ॥ यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमं श्रद्धावान् विजितेन्द्रियो भवहरं मनं जपेत् श्रावकः। पुष्पैः श्वेतसुगन्धिभिश्च विधिना लक्षप्रमाणैर्जिनं यः संपूजयते स विश्वविदितः श्रीतीर्थराजो भवेत् ॥९८॥
___ बने रणे शत्रु-जला-ऽग्निमध्ये, महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ ९९॥ अतो बबन्ध सा बाला पर्वतोपरि सद्ध्वजम् । विदृश्यैनं यतः कोऽप्यत्रागच्छति वजन्पथि ॥१०॥ क्रमेण कोऽपि तन्मार्गे गच्छंश्च व्यावहारिकः । ध्वजं दृष्ट्वा च तद्वीपे तरण्डो रक्षितस्ततः ॥ १.१॥ उत्तीर्य वणिजां मुख्यो जवात् तत्र नगे गतः। अर्हत्भक्तिपरां बालां ददर्श रूपसुन्दरीम् ॥ १०२ ॥ इति पप्रच्छ तां श्रेष्ठी त्वं तिष्ठसि कथं वने ? । देवी वा.किन्नरी वा त्वं भद्रे कथय मां प्रति ॥१३॥ पूर्ण ध्यानं च कृत्वा सा, श्रुत्वेति तद्वचोऽवदत् । भ्रातोऽहं श्रेष्ठिनः पत्नी यानभङ्गादिहागता ॥ १०४ ॥ उवाच तां पुनः श्रेष्ठी भगिनि ! मे वचः शृणु । आगच्छ त्वं मया साधैं मोचयिष्ये शुभस्थले ॥१०५॥
सा विधायाहतः पूजां चचाल श्रेष्ठिना सह । चलितं श्रेष्ठिन श्चित्तं वधूपरि ब्रजन्पथि ॥ १०६ ॥ यतः-पुष्पं दृष्ट्वा फलं दृष्ट्वा दृष्ट्वा नारी सुशोभिताम् । तानि त्रीणि वने दृष्ट्वा कस्य न चलति मनः १ ॥१०७ ॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26