Book Title: Mahatma Jati ka Sankshipta Itihas
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 103
________________ (८२) ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु यथा महत्वं, नैवं तु काचशकले किरणा कुलेऽपि ॥ २०॥ मन्येवरं हरिहरादयएव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीतितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथभवान्तरेऽपि ॥ २१॥ स्त्रीणां शतानि शतशो जनयंति पुत्रान् , नान्यासुतं त्वदुपमं जननी प्रसूता । सर्वा दिशा दधति भानि सहस्ररश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्गममलं तमसः पुरस्तात । त्वामेव सम्यगुपनभ्य जयंति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पंथाः ॥२३॥ त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्य ब्रह्माणमीश्वरमनन्तमनंगकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूप ममल प्रवदंति सन्तः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धि बोधात् , त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर शिवमार्गविधेविधानात् , व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः तितितमामलभूषणाय । तुभ्यं नतस्विजगतः परमेश्वराय, तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ को विस्मयोऽत्र यदिनाम गुणैरशेष स्त्वं संश्रितोनिरवकाशतया मुनीश! दोषैरुपातविविधाश्रयजातगवे स्वप्नांतरेऽपिन कदाचिदपोतितोऽसि । ॥ २७ ॥ उधरशोकतरुसंश्रितमुन्मयूखमाभाति रूप ममल भवतो नितांतम् । स्पष्टोलसकिरणमस्ततमोवितान, बिम्ब रवेरिष पयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120