Book Title: Mahatma Jati ka Sankshipta Itihas
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 102
________________ ( १ ) नीयं, नान्यत्र तोषमुपयाति जनस्य चतुः । पीत्वा पयः शशिकरः द्युति दुग्धसिन्धोः, क्षारं जलं जलनिधेरशिंतुकइच्छेत् ॥ ११ ॥ यैः शान्तरागरुचिभिः परमाणुभिस्त्वं, निर्मार्पितस्त्रि भुवनैकललामभूत ! तावंतपव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूप मस्ति ॥ १२ ॥ वक्त्रं क ते सुरनरोरगनेत्रहारि, निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलंकमलिन व निशाकरस्य, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥ सम्पूर्णमंडलशशांककलाकलांप शुभ्रा गुणास्त्रिभुवनं तव लंघयंति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं कस्तान्निवारयति - सञ्चरतो यथेष्टम् ? ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशांगनाभिर्नीतंमनागपिमनो न विकार मार्गम् ? | कल्पांतकाल - मरुताचलिताचलेन किं मन्दराद्रिशिखरं चलितं कदाचित् ॥१५॥ निधूमवर्त्तिरपवज्र्जिततैलपूरः, कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि - गम्यो न जातु मरुता चलिताचलानां, दीपोऽपरस्त्वमसिनाथ जगत्प्रकाशः ॥ १६ ॥ नास्तं कदाचिदुपयासिन राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति । नांभोधरोदरनिरुद्ध महा प्रभावः, सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ नित्योदयं दलितमोहमहान्धकारं, गम्यं न राहु बदनस्य न वारिदानाम् । विभ्राजते तवमुखाब्जमलल्पकांति, विद्योतयजगदपूर्वशशांकबिम्बम् ॥ १८ ॥ किं शर्वरीषु शशिनान्दिविवस्वता वा ?, युष्मनमुखेन्दुदलितेषु तमस्सु नाथ ! निष्पन्नशालिवन - शाजिनि जीवलोके कार्य कियजलधरैर्जलभारनत्रैः १ ॥ १६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120