Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
मदन-धनदेवकथा
139
॥५६॥
॥५७।।
॥५८॥
॥५९।।
॥६०॥
ततः प्राप्ते शरत्काले, प्रवासं कर्तुमर्हसि। ततस्तस्थौ तदुक्त्या सः, कामी हि स्त्रीवचोवशः प्रावृषं गमयामास, यथाभोगसुखं स च। गन्तुमापृच्छतैतां तु, द्रष्टुमुत्कण्ठुलः प्रिये साऽपि किञ्चिद्विचिन्त्याऽऽशु, तं गन्तुं चाऽन्वमन्यत। करम्बं चाग्रिमं कृत्वा, शम्बलं प्रचुरं ददौ तदाऽऽदायाऽथ सोऽचालीद, ग्राममेकमवाप्तवान्। मध्याह्ने तत्सरस्तीरे, विशश्राम तरोस्तले स्नात्वा देवगुरून् स्मृत्वा, भोक्तुं चेच्छन्नचिन्तयत्। यदि प्रदायाऽतिथये, भुजे स्यात्तद्विवेकिता यान्तं देवकुलात्तावद, ग्रामान्तर्भक्ष्यहेतवे। कञ्चिज्जटाधरं दृष्ट्वा, स निमन्त्रितवान्मुदा यथाश्रद्धं ददौ तस्मै, दानशौण्डः करम्बकम् । क्षुधितः सोऽपि तत्रेव, द्राग् भोक्तुमुपचक्रमे भुङ्क्ते च मदनो याव-त्तावत्कश्चित्क्षुतं व्यधात् । मत्वाऽपशकुनं तच्च, प्रत्यैक्षिष्ट क्षणं सुधीः तावद्भुक्त्वा करम्बं तमूरणः स तपस्व्यभूत् । प्रचचाल च सङ्काशनगराभिमुखं द्रुतम् मदनस्तं तथा वीक्ष्याऽभोक्षं चेत्तं करम्बकं । अभविष्यं ततो नून-महमप्येवमूरणः दयादानमहिम्नाऽस्या, विपदस्त्वस्मि रक्षितः । विचिन्त्य चेति यात्येष, वेत्याश्चर्यात्तमन्वगात्
॥६१॥
॥६२।।
॥६३॥
||६४॥
॥६५॥
॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180