Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 172
________________ मदन-धनदेवकथा 161 चिरादपि न व्यरंसी:। किमु मम मुशलं नास्ति?, परमहं भर्तुः प्राणापहारं किं करोमि? इति लज्जावशतस्तेन न हन्मि। इति पुन: पुनर्वदन्ती सा मुहूर्मुहुरारसन्तं तमताडयत्। तं शुण्वन् लोकोऽमिलत्, जजल्प च-मूढे! निर्लज्ने! पशु कथं ताडयसि?, वणिक्कुलभवाऽपि हत्यापापात् किं न बिभेषि?। ततश्च साऽभिमन्त्रितवारिणाऽसिञ्चत्, तदा उरणो भस्मलिप्ताङ्गो यथारुपो जटाधरोऽभूत्। तं दृष्ट्रा जनोऽप्राक्षीत्- भदन्त! तव किमिदम् ?। तदा तपस्वी स्ववृत्तान्तं यथागद्दमूचिवान्, तत: स तरललोचनो भीत्या सद्योऽनशत्। लोको विस्मित: स्वपदमगात्। विद्युल्लता दध्यौ- "धिग् धिग्, अयं निरपराधस्तपस्वी मया पीडित:, न जाने भर्ता क्व गतः, पुनर्मिलिष्यति न वा?। शिक्षया तं वशीकृत्य यथारुचि भोगान् भोक्ष्ये एवं मम मनोरथोऽधुना व्यर्थोऽभूत। जने ममोद्घाटोऽभूत्, पत्या च वियोगो जात:'। अथ मदनस्तन्निरीक्ष्य नानारसाकुलो दध्यौ- 'अनयाऽनेन चरित्रेण मम प्राक्प्रिये निर्जिते । अहो! योषितां चरितानि योगिनामप्यगम्यानि, धिग् धिग् रागान्धितान् जीवान् ये तास्वपि रज्यन्ते। ॥१ ॥ यत:राक्षसी: सर्पिणीया॑धीः, क्रौर्यान्नार्योऽतिचक्रमुः। विश्वसन्ति य एतासु, नृरूपा: पशवो हि ते अहं तु कष्टाच्छुटितोऽस्मि, ततश्चण्डां प्रचण्डां विद्युल्लतां चाऽपि त्यक्त्वा स्वहितं करिष्ये। इति ध्यात्वा मदनो भ्राम्यन् हसन्तीपुरीमगात्। तत्रोद्यानेऽभ्रंलिहं हिरण्यमयं चैत्यं ददर्श। भक्ति-हर्षोल्लसत्तनुर्विधिना तत्र प्रविश्य आदिमाहतो रात्नप्रतिमां प्रणम्य तुष्टुवे, स्वर्विमानजितश्च चैत्यस्य श्रियमालुलोके। ततो धन्यंमन्यो मुदितो रङ्गमण्डपमध्यास्त, तावत्तत्र कश्चित् चारुवेषाऽङ्ग-यौवन आययौ। सोऽपि तीर्थेशं नत्वा स्तुत्वा च तत्रैव मण्डपे दुःखेन दीर्घं नि:श्वस्य मदनान्तिके उपाविशत्। तं च नि:श्वसन्तं प्रेक्ष्य मदन:स्माह-हे सखे! कस्त्वम्?, किमेवं नि:श्वसिषि?, अहमिव किं दुःखितोऽसि?'| स जगौ- 'अहं धनदेवो वणिग् अत्रैव वसामि, दुःखं तु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180