Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
160
श्री पदविजय विरचिता
सोऽश्रुधाराममुञ्चत्, वाससा च लोचने स्पृशन्तं विद्युल्लताऽद्राक्षीत्। तदा साऽपृच्छत्'हहा प्रिय! अधुनाऽऽकस्मिकं तव रुदितं कथम्?'। तत्कारणमकथयन्नपि निर्बन्धे कृते पूर्वपल्यो: सर्वं व्यतिकरं तत्स्मरणादि चावदत् । सा प्राह- 'यद्येवं तर्हि तत्र गत्वाऽमू किं नाश्वापासयसि?'| सोऽप्यवदत्-यदि त्वमनुमन्यसे तदा यामि। इति सा श्रुत्वा स्त्रीस्वभावत्वाद् भृशेर्ण्यिता दध्यौ- अहो! दासीव सर्वदा सर्वां शुश्रूषां कुर्वे, कदापि हास्येन गिराऽपि वा विनयातिक्रमात् स्नेहप्रातिकूल्यम् अण्वपि क्वापि नाऽदीदृशम्, तथाप्येष तादृश्योरपि प्राक्पन्योरद्य स्मरति। विपुलां स्मरव्यथां क्षणमपि सोढुं न क्षमे, जलदावलिश्च स्मरसखोऽयं कालः, तत: कालक्षेपं विधायैनं ते विस्मारयामि। इति विचिन्त्य साऽवदत् प्रिय! सम्प्रति गिरिवाहिन्यो विषमा:, पन्थानश्च पङ्कदुर्गमाः, तत: शरत्काले प्रवासं कर्तुमर्हसि। तदा तदुक्त्या स तस्थौ, यत: कामी हि स्त्रीवचोवशो भवति।
अथ स यथाभोगसुखं प्रावृषंगमयामास, तत: प्रिये द्रष्टुमुत्कण्डुल एनांगन्तुमापृचछत। सापि तं गन्तुमन्वमन्यत, अग्रिमं च करम्बं कृत्वा प्रचुरं शम्बलं ददौ। तदादाय मदनोऽचालीद्, एकं ग्राममवाप्तवान्, मध्याह्ने च तत्सरस्तीरे तरोस्तले विशश्राम। स्नात्वा देवगुरुंश्च स्मृत्वा भोक्तुमिच्छन्नचिन्तयत्- यद्यतिथये प्रदाय भुजे तदा विवेकिता स्यात्। ___तावत् कश्चिन्जटाधरं भैक्षहेतवे देवकुलाद् ग्रामन्तर्यान्तं दृष्टा मुदा निमन्त्रितवान्। दानशौण्ड: स तस्मै यथाश्रद्धं करम्बकं ददौ। सोऽपि क्षुधितो द्राक् तत्रैव भोक्तुमुपचक्रमे। अथ मदनो यावद्रुङ्क्ते तावत्कश्चित् क्षुतं व्यधात्। तचाऽपशकुनं मत्वा स सुधी: क्षणं प्रत्यैक्षिष्ट, तावत् स तपस्वी तं करम्बकं भुक्त्वा उरणकोऽभूत्, सङ्काशनगराभिमुखं च सत्वरं प्रचचाल। तं तथा दृष्ट्वा मदनोऽप्यचिन्तयत्- चेत् करम्बको मया भक्षितः स्यात् तदाऽहमप्येवम् उरणोऽभविष्यम्। इति विचिन्त्य स एष व याति? इत्याश्चर्यात् तमन्वगात्। द्वावपि तौ यान्तौ सङ्काशपुरमीयतुः। उरणो द्रुतं विद्युल्लताया गृहे प्राविशत्। अस्य को वृत्तान्तो भवेत् ? इति द्रष्टुं मदन: क्वऽपि गृहतो बही रह: स्थितः।
अथ विद्युल्लता स्वौकसि प्राप्तमुरणं दृष्ट्वा क्रुधा सत्वरं द्वारं पिधाय दण्डेन दृढमताडयत्। 'रे रे! निरपराधां मां त्यक्त्वा सापराधे अपि प्रिये रमयितुं यासि?,
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180