Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
166
श्री पदग्विजय विरचिता
अथ कियति कालेऽतिक्रान्ते श्रीपुजे स्वर्ग गते पितृवेश्मनि भ्रातृणां स्नेहदौर्बल्यं ज्ञात्वा श्वशुरगृहे पत्या सह यियासुः श्रीमती दध्युषी- अस्य कीदृशो गृहवास:?, कीदृश्यौ च पुराप्रिये?, इत्युत्कण्ठिता श्रीमती तं जगौ-स्वामिन्! सकृत् स्वपितुरावासं किं न दर्शयसे?, पुरुषस्य पितृगृहे वास:श्लाघ्य:, स्त्रियाश्च श्वशुरगृहे वास:श्लाघ्यः। धनदेवो जगौ-समये ज्ञास्यते। तच्छ्रुत्वा सा धृतिमती भोगैकदत्तदृक् तस्थौ।
पुन: कालान्तरे सा पतिं व्याहार्षीत् - स्वामिन्! त्रेधा मनुष्याः स्यु:- ये श्वशुरगुणेभ्य: ख्यातिमन्तस्ते जघन्याः, ये पितृगुणेभ्यः ख्यातास्ते मध्यमाः, ये च स्वगुणेभ्य: प्रतिद्धास्ते उत्तमाः। हे नाथ! तवाऽत्रस्थस्य श्वशुरोद्भवा समृद्धिः, एषा नोत्तमत्वाय, तेन त्वत्पितुर्गृहं यावः। इति धनदेव: श्रुत्वा तां जगाद- भद्रे! अद्यापि तान् भर्जिकायाश्छमत्कारान् स्मरामि!। एवं पत्युरुक्तमाकर्ण्य श्रीमती जगाद- प्रिय! के नु ते? | तत: सोऽपि आदित: स्ववृत्तान्तं सम्यगवदत्। तं श्रुत्वा श्रीमती हास्याऽवज्ञे विदधती जगौ-स्वामिन्! कियन्मात्रमिदम्?, तत ईदृशाद् मा भैषीः। अत्र नूनमहं भलिष्ये, ततो निःशङ्क मया सह स्वगृहं वज्र, तव बाधा कर्हिचित् क्वाऽपि न भवित्री। इति पत्नीगिरा साहसं भजन् स्वजनानापृच्छय स सप्रिय: क्रमाद् हसन्तीमगात्।
स्वगृहे विशन् तदवस्थोऽप्ययं कथं स्वं रूपं प्रापत्? इति ध्यायन्तीभ्यां पूर्वपत्नीभ्यां सोऽदर्शि। ततस्ते बहिर्मुदं दर्शयन्त्यौ तमभ्युत्तस्थतु:, सगौरवंच आचमनदानादिप्रतिपत्तिं कृत्वा, सप्रिन् तं चित्रशालायां नीत्वा आसने निवेश्य स्वागतप्रश्नाद्यैः पतिम् अमूमुदताम्। __ततो ज्येष्ठागिरा लघ्व्या पाद्यं वरोदकमानीय ताम्रभाजने भक्त्या तस्य चरणौ क्षालितौ। ज्येष्ठा तज्जलं गृहत्वाऽभिमन्त्र्य च तेन जलेन भुवमाच्छोटयत्, तदा तज्जलं गृहेऽभितो ववृधे। जले वर्धमाने भीतो धनदेव: श्रीमत्या मुखमीक्षते, सा तु मुहुर्मुहुः मा भैषी: इत्यभिधत्ते। ततस्तज्जलं वर्धमानं क्रमाद् गुल्फो जानू ऊरू नाभिम् उरो गलं नासां यावच्चाऽऽयातं, ततो भीत: श्रीमतीमभ्यधात् अत: परं नासायां मनायां कस्मै कार्याय त्वत्प्रतिक्रिया भविष्यति?। तदा सा सद्यस्तत्पयो धेनुवद् मुखेन तथाऽपाद् यथा बिन्दुरपि क्कापि नेक्ष्येते। तद् दृष्टा पूर्वपन्यौ द्राक् तस्याः पादयोरपतताम्, ऊचतुश्चत्वया निजविद्या-कला-गुणैरावां जिग्यिवहे, ततस्त्वां स्वामिनीमिवाऽऽराधयिष्याव:।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 175 176 177 178 179 180