Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
मदन-धनदेवकथा
165
सच्छमत्कारं पक्ष्यसे। इत्यादि भाषितैस्ताभ्यां जीवितसंशयं नीयमान: कीरो दुःखितः कथञ्चिद्वासरान् व्यतिक्रामति।
अथ रत्नपुरे श्रीपुञ्ज: श्रेष्ठी वरं निर्गतम् अनायातं च विज्ञाय सर्वत्राऽप्यगवेषयत्, अलब्ध्वा च प्रगेतेन लिखितं श्लोकमैक्षत। ततोधियां धाम्ना श्रेष्ठिना तस्य वासस्थानादिकं ज्ञातम्। तथाहि-हसन्त्यां पुर्यां धनपते: सूनर्धनदेवाह्नो व्योम्ना कथञ्चिदत्राऽऽगात्, जगाम च। तदुदन्तमुक्त्वा वरमाकारयिष्यामि इत्याश्वासिता सुता रुदती स्थापिता।
अन्येधुरर्थोपार्जनहेतवे सागरदत्ताभिधानं सार्थवाहं हसन्त्यां गछन्तं ज्ञात्वा श्रीपुञ्जस्तस्य धनदेवाय रात्र्या अलङ्कृतिमार्पिपत्। सन्दिष्टं च- द्रागिहागत्य निजपत्नी संभाल्या। सागरदत्तोऽपि पोतेन समुद्रमुल्लङ्घय सद्यो हसन्त्यां प्राप्तवान्, ततो धनदेवगृहेऽगमत्। तत्र तमदृष्टा तस्य प्रिये अप्राक्षीत्- युवयो: पति: काऽऽस्ते?। ताभ्यामूचे- द्रव्योपार्जनाय स देशान्तरे गतः। अथ सोऽवादीत्- इममलङ्कारं जामात्रे धनदेवाय श्रीपुञ्जः प्राहिणोत्, शीघ्रं च तमाहवत्। ते ऊचतु:- इदं साधु, धनदेवोऽपि तां प्रियां शीघ्रं द्रष्टुमुत्सुकः, परं गाढकार्यतो देशान्तरेऽगात्। तेन च गच्छता इत्युक्तम् यदि कोऽपि रत्नपुरोदेति तदाऽयं शुकस्तद्धस्तेन प्रियायै प्रेष्यः, तदर्पितं च ग्राह्यम्"। इत्युक्त्वा ताभ्यां स शुक: सपञ्जरस्तस्याऽऽर्पि, अलङ्कृतिश्च गृहीता। सार्थवाहोऽपि कीरयुग निजोत्तारके ययौ।
क्रमात् क्रयाणकानां क्रय-विक्रयौ विधाय नावा वारिधिमुलङ्घय शीघ्रं रत्नपुरे आगात्। तत्र धनदेवप्रियोदितं सर्वं श्रेष्ठिने निवेद्य तं शुकमार्पिपत्, सोऽपि स्वपुत्र्यै ददौ। सा च तं दृष्ट्रा मुमुदे, भर्तुः प्रसादं मन्यमाना नित्यं रमयति। अन्यदा पादे दवरकं दृष्ट्वा विस्मिताऽतुत्रुटत्, तदा स्वभावस्थो धनदेवोऽभूत्। तत: सा तं निरीक्ष्य विस्मिता मुदिता चाऽऽचख्यौ- ‘स्वामिन्! किमिदमद्भुतम् ?' तेनोक्तम्-यत् पश्यसि तदेव, अधुनाऽधिकं तु न पृच्छ्यम्। इत्येतेनोक्ते सा गत्वा एतत् पितुर्त्यवेदयत्। स प्रमुदितो धनदेवाय सन्मानपूर्वकं स्वर्विमानसदृशं सधनो-पस्करमावासं ददौ। धनदेवस्तत्र तया सस्नेहया नवोढया सह भोगन् भुञ्जानोऽस्थात्, व्यवसायोश्च कर्मभिः पुण्यानुभावादद्रुतां लक्ष्मीमर्जयति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 174 175 176 177 178 179 180