Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 178
________________ मदन-धनदेवकथा 167 ततस्ता मिथ: प्रीतिजुषः स्वस्वकार्येषु लग्नाः। तिस्रोऽप्यमूः शूद्रविद्याभिः समतां ययुः। मिथश्च प्रीत्या मिलिताः, शीलसाम्ये हि सौहृदं भवति। तत आद्ययोरिवाऽस्या अपि स्वैरित्वं जातं, यत: संसर्गात् खलु असन्तोऽपि दोषा आयान्ति। तद् दृष्ट्रा धनदेवो दध्यौ- प्राच्ययोर्यादृशी भक्तिर्मया ददृशे! तथाऽस्यास्तृतीयस्या अपि भविता तदा मम शरणं को भविष्यति?। तत्तिस्रोऽमू राक्षसीरिव शीघ्रं त्यक्त्वा किञ्चित् स्वहितं करोमि, येन पुनर्भयं न स्यात्। इति विचिन्त्य धनदेव: किश्चित्कार्यमुदृिश्य गृहान्निर्ययौ, अस्मिंश्चोद्याने चैत्ये समाययौ। सोऽहं धनदेवो निजं दुःखं न्यगदम्, त्वदुःखतश्चाऽधिकं शुकत्वादिकं दुखमन्वभूवम्। तव उपागताऽपि पशुता दैवाट्टलिता, तदुःखं तु वपुषा नाऽन्वभूः, तेन त्वं भाग्यवानसि। अथ मदन एवं निशम्य विस्मितस्तं व्याजहार- सखे! दुःखमयं भवं मत्वा आत्महितं कुर्वः। एवं तुल्यवृत्तयोस्तयोः प्रीतितो वार्तयतोविमलबाह्वाह्नो गुरुः सपरिच्छदस्तत्रागात्। सोऽपि युगादीशं नत्वा स्तुत्वा च तत्र मण्डपे शिष्यैढौंकिते प्रासुके कम्बले समुपाविशत्। ताभ्यां भक्त्या वन्दित: स धर्माशिषं दत्वा पुर आसीनयोस्तयोर्धर्मदेशनां विदधे। तथाहि शरदभ्रसमा: श्रियोऽखिला-स्तटिनीपूरसमं च जीवितम्। नटपेटकवत् कुटुम्बकं, ननु को मुह्यति धर्मकर्मसु? ||१|| शरणं न विपत्सु कश्चन, स्वजना: स्वार्थपरा वपुः क्षयि। ललना: कुटिलाः कुत: परा-भवभीविघ्नभृते भवे सुखम्? ॥२।। अणु वैषयिकं सुखं भवे, तदपि स्याद् ललनाद्यसाधनम्। ललना त्वखिलापदां सखी, न बुधोऽस्मिन्ननुरज्यते ततः ॥३।। परमे तदगत्वरे सदा-ऽप्यपवर्गस्य सुखेऽनुरज्यताम्। स च संयमसाधनो मतः, प्रतिपद्यध्वमत: सुसंयमम् ॥४॥ एवं गुरुविधो: संवेगसुधावर्षकैर्गोभिः संसारतृष्णातापे गते सति इमौ प्राव्रजताम्, गुरुणा च सह व्यहरताम्। तौ मुनी संविग्नौ नानातपांसि कुर्वाणौ, द्वादशाङ्गधरौ, सिद्धयोगौ, मिथः प्रीत्या प्राय: सह विहारिणौ, विधिना पूरितायुष्कौ नृभवं त्यक्त्वा सौधर्मे पञ्चपल्यायुषौ सुरौ उदभूताम्। ॥१॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180