Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 175
________________ श्री पदमूविजय विरचिता त्स्थानाद्यभिज्ञानमीक्षते । अथ च पत्न्योर्गमन - शङ्कया श्रीमत्या वसनाञ्चले धनदेवः कुङ्कुमेनैतं श्लोकं लिलेख 164 "क्व हसन्ती ? क्व वा रत्नपुरं ? चूतोऽभ्रगः क्व च ? | सूनुर्धनपतेर्भाग्याद्, धनदेवोऽभ्यगात् श्रियम्'' ||१|| ततः किञ्चित्कार्यमुदृिश्य निर्ययौ, प्रिये च वीक्ष्य तयोरनुगतः। ते द्रुममारुढे सोऽपि प्राग्वत् कोटरे तस्थौ, स्वं च वाससा बबन्ध । ततश्चतः स्त्रीजप्तमन्त्रेण व्योम्नोत्पत्य तत्पुरोद्याने पूर्ववत् तस्थौ । ततो धनदेवो रहो निजगृहे ययौ, शय्यायां प्राग्वदस्वाप्सीत्, पटावृतश्च निदद्रौ। तत्प्रिये अपि गृहं प्राप्ते पतिं तथा दृष्ट्वा निःशङ्के जाते शय्ययोः शयिते, क्षणं च निद्रासुखमापतुः । प्रातरुत्थाय गृहकर्माणि चक्रतुः । धनदेवो रात्रिजागराद् अद्यापि निद्राणोऽस्ति । अथ निद्रावशात्तस्य आबद्धकङ्कणो दक्षिणः पाणिर्भाव्यवशात् प्रावरणाद्द्बहिर्निरगात्, तं दृष्ट्रा चकिता लघ्वी प्रिया ज्येष्ठामदीदृशत् । साऽपि स्माह- अयं वर आर्यपुत्र इवाभाति इति यत्त्वयाऽवादि तत्सत्यमभूत् । आवाभ्यां सह कथमपि रहोऽयमागत्य कन्यकामुपायंस्त तदावयोर्वृत्तान्तोऽखिलोऽप्यनेन बुबुधे । परं मनागपि मा भैषीः, अत्र प्रतिक्रियां करिष्ये । इत्युक्त्वा दवरकमभिमन्त्र्य सप्त ग्रन्थीन् प्रदाय धनदेवस्य वामे पादे बबन्ध। अथ धनदेवो यावत् पाणिसंस्पर्शात् प्रबुध्दस्तावत् सविस्मय आत्मानं शुकीभूतं ददर्श, अग्रे च प्रियां वीक्ष्य दध्यौ - मया कङ्कणच्छोटनं विस्मृतं, तत् पाणौ वीक्ष्य ध्रुवं प्रिया शङ्किता । कथञ्चिच्च नैशं वृत्तान्तं विज्ञाय मां शुकं चकार, यत ईदृक्चरित्रायामस्यां न हि किञ्चनाऽसम्भाव्यम् । धिग् मया मनुष्यत्वं हारितं, अहं पशुभूतः, किं करोमि? | इति ध्यात्वा भीत्या यावदुड्डयते तावत् सा दुष्टा कोपात् करेण तमाक्रम्य जगाद - रे! रे! ज्वरच्छलं कृत्वाऽऽवयोश्चरित्रं विलोकसे ?, भवादृशां तन्न गम्यम्, अत: स्वच्छलजं फलं सहस्व इत्युक्त्वा तं पञ्जरे क्षिप्त्वा गृहकार्येमष्वलगत्। अन्याऽपि तस्या: कलां प्रशंसन्ती गृहकार्यमकरोत्। धनदेवस्तु स्वगृहं परिजनादि च पश्यन् शोचित । अथ ते भर्जिकां सच्छमत्कारं पचन्त्यौ शुकं नीत्वाऽ स्त्रधारायां च न्यस्य भापयतः- रे ! छमत्कारान् श्रुणोषि ?, त्वमप्येवं कदापि निहत्य For Personal & Private Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180