Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 170
________________ मदन-धनदेवकथा 159 निजनामग्रहणाऽऽमन्त्रणादिभिरेष चमत्कृतस्तेन सह तस्य मन्दिरमगमत् । श्रेष्ठी तं सगौरवं स्नान-भोजनादि विधाप्य निजाङ्गजां पुरस्कृत्य इमां पाणौ कुरु इति जगौ। मदनोऽपि पक्वबिम्बौष्ठीं चन्द्रास्यां रुपेण रत्यतिरेकां तां दृष्ट्रा विस्मित: श्रेष्ठिनमवदत्त्वं मम नाम कथं वेत्सि?, गौरवं किं करोषि?, अज्ञातकुल-शीलस्य च निजां पुत्रीं कथं दत्से? श्रेष्ठ्यवोचत् - मम चतुर्णां पुत्राणामुपरि नानाविधोपयाचितैरीप्सितैषा विद्युल्लता पुत्री जज्ञे। मया प्राणोभ्योऽप्यतिवल्लभेयं सकला: कला: पाठिता यदा यौवनस्थाऽभूत् तदा मयैवं चिन्तितम्- इयं पुत्री लोकरीतित: कस्मैचिद्वराय देया, अहं चाऽस्या वियोगं क्षणमपि सोढुं न क्षमे। एवं चिन्तातुरो विनिद्रो रात्रौ सुप्तस्तदा कुलदेव्यागत्योचे - वत्स! चिन्तां किं करोषि?, प्रातरेतदुद्याने किङ्केल्लिवृक्षतले प्रथमप्रहरान्ते मदननामानं कन्याहं वरं लप्स्यसे। विशुद्धकुलजाताय सर्वगुणाय तस्मै कन्या देया, स चाऽवियोगाय स्वगृहे एव स्थाप्य: एवमुक्त्वा देवी गता, तस्या गीर्यथार्था जाता। तदादेशाद् इमां पुत्रीं ददे, तत् त्वं परिणय। तदा मदनो दध्यौत्यक्तपूर्वकलत्रेण मया वण्ठेनेव एककेन प्रियां विना कियन्तं कालं व च स्थेयम् ?। ईदृशी च देवतादिष्टा दुष्प्रापाऽपि मम भाग्ययोगेन सुप्रापाऽभवत्, तदेनां मनोविश्रामभुवं कनी परिणीयाऽत्रैव धन-भोगयुक् तिष्ठामि। इति ध्यात्वा श्रेष्ठिनो वच: प्रपेदे। ___ तत: श्रेष्ठी तां विवाह्य हर्णोद्रेकात् तस्मै प्रमाणातिरेकं धनं गेहोपस्करं च ददे। मदनोऽ पि श्रेष्ठिना दत्ते आवासे तया सस्नेहया नवोढया साकं यथारुचि भोगान् भुङ्क्ते। यत्र तत्रापि नृणामाकस्मिका भोगा भवन्ति, अयं पुण्यस्यैव प्रभाव: ततो हे जना:! पुण्यं कुरुत। अथ मदनस्य सुखमये कित्यपि काले गते सति क्रमाद् वियोगिनीकालो वर्षाकाल: समायातः। तस्मिन् वर्षाकालेऽन्यदा काञ्चित्त्स्मरवशां रमणीं प्रोषितभर्तृकां रुदतीं स गवाक्षस्थितोऽश्रृणोत्, दध्यौ च - यथैषा पत्युर्वियोगात् स्मरपीडिता रोरुदीति तथा मन्ये नारीभिर्वियोगोऽतिदुःसहो वर्तते। ततो मया ये द्वे मुक्ते ते स्मराते स्नेहवशाद् मां स्मृत्वा कथमद्य भविष्यत:?। तत्कथञ्चित् सकृद्गत्वा ते आवासयामि, विशिष्य चाऽनपराधामुपकारिणी प्रचण्डामाश्वासयामि। इति प्रियायुग्मावियोगभवदुःखत: Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180