Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
मदन-धनदेवकथा
153
||२०९।।
||२१०॥
ददृशे प्राच्ययोभक्ति-स्तृतीयस्या अपीदृशी। मयि चेदविता तत्कः, शरणं मे भविष्यति ? तिस्रोऽपि तदमूस्त्यक्त्वा, प्रत्यक्षा राक्षसीरिव । करोमि स्वहितं किञ्चिद्येन स्यान्न पुनर्भयम् विचिन्त्यैवं गृहात् किञ्चित्, कार्यमुद्दिश्य निर्ययौ।। उद्याने चाऽत्र चैत्येऽस्मिन्, धनदेवः समाययौ
॥२११॥ स चाऽहं धनदेवाख्यो, दुःखमित्यवदं निजम्। शुकत्वादौ त्वन्वभूवं, यत्तत्त्वदुःखतोऽधिकम्
॥२१२॥ उपागताऽपि यदैवाट्टलिता पशुता तव । नान्वभूर्वपुषा तेन, दुःखं तद्ग्यवानसि
॥२१३॥ मदनोऽथ निशम्यैवं, विस्मितो व्याजहार तम्। भवं दुःखमयं मत्वा, कुर्व आत्महितं सख्खे!
॥२१४॥ एवं वार्तयतोस्तुल्य-वृत्तयोः प्रीतितस्तयोः । गुरुर्विमलबाह्वाह्व-स्तत्राऽऽगात्सपरिच्छदः
||२१५॥ नत्वा स्तुत्वा युगादीशं, सोऽपि तत्रैव मण्डपे। प्रासुके कम्बले शिष्यै-ढौंकिते समुपाविशत्
||२१६॥ स भक्तिवन्दितस्ताभ्यां, धर्मलाभाशिषं ददौ। देशनां विदधे धा, पुरश्चाऽऽसीनयोस्तयोः
॥२१७॥ "शरदभ्रसमाः श्रियोऽखिला-स्तटिनीपूरसमं च जीवितम्। नटपेटकवत्कुटुम्बकं, ननु को मुह्यति धर्मकर्मसु? ॥२१८।। शरणं न विपत्सु कश्चन, स्वजनाः स्वार्थपरा वपुः क्षयि। ललनाः कुटिलाः कुतः, पराभवभीविघ्नभृते भवे सुखम् ॥२१९।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180