Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust

View full book text
Previous | Next

Page 155
________________ 144 श्री मुनिसुन्दरमूरिविरचिता ॥११०॥ ॥१११॥ ||११२॥ ॥११३॥ ||११४॥ यामान्तं निशि मत्वा तं, निद्राणं घोरशब्दतः । कनिष्ठामवदज्येष्ठा, सामग्री कुरु हे स्वसः! ततो द्राग्गृहकृत्यानि, कृत्वा निर्याय ते उभे। आरूढे च गृहोद्यान-सहकारद्रुमोपरि निरीक्ष्य धनदेवोऽथ, निर्याते ते रहोऽन्वगात् । चूतस्य कोटरे तस्थौ, वस्त्रेण स्वं बबन्ध च मन्त्रे जप्ते ततस्ताभ्यां, नभसोदपतत्तसः । द्राग्गत्वा चाम्बुधौ रत्नद्वीपे रत्नपुरे स्थितः उत्तीर्याऽस्मात्पुरस्यान्तः, प्राविक्षतां च ते स्त्रियौ। विचित्राणि च चित्राणि, निरीक्षेते यथारूचि प्राविशद्धनदेवोऽथ पुरेऽत्राऽनुसरनिमे। तयोस्तादृक्चरित्रेण, भृशं चित्रीयमाणहृत् अथाऽत्राऽस्ति निधिः श्रीणां, श्रीपुञ्जः श्रेष्ठिपुङ्गवः । जाता पुत्रचतुष्कोपर्यस्य च श्रीमती सुता यस्या रूपं निरीक्ष्यैवाऽऽकांक्षयाप्यनवाप्तितः । दुःखात्कामः क्षयदेहो, जज्ञेऽनङ्गः शनैः शनैः विद्याःकलाश्च या सर्वाः, सस्पर्द्धमिव शिश्रियुः । सौभाग्यैकपदं तादृक्, किलाऽवीक्ष्य पदान्तरम् जायमाने तदोद्वाहे, तस्याश्च विविधोत्सवैः । सार्थेशवसुदत्तस्य, पुत्रः सुत्रामलीलया हयारूढश्चलचारु-चामरैरूपवीजितः । उत्तमाङ्गधृतस्फार-मायूरातपवारणः |११५॥ ||११६॥ ॥११७॥ ॥११८॥ ॥११९॥ ।।१२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180