Book Title: Madan Dhandev Charitra
Author(s): Tirthbhadravijay
Publisher: Shraman Seva Religious Trust
View full book text
________________
150
श्री मुनिसुन्दरसूरिविरचिता
क्रमाक्रयाणकानां स, विधाय क्रयविक्रयौ। आगाद्रत्नपुरे नावोल्लंघ्य वारिनिधिं जवात्
||१७६ ।। निवेद्य श्रेष्ठिने सर्वं, धनदेवप्रियोदितम् । आर्पिपत्तं शुकं सोऽपि, स्वपुत्र्यै मुमुदे च सा
॥१७७॥ भर्तुः प्रसादं सा मन्यमाना तं रमयत्यलम्। दृष्ट्वा दवरकं पादे-ऽतुत्रुटद्विस्मिताऽन्यदा
॥१७८॥ धनदेवः स्वभावस्थ-स्ततोऽभूत्तं निरीक्ष्य सा। विस्मिता मुदिता चाख्यत् स्वामिन्! किमिदमद्भुतम् ? ॥१७९ ।। यत्पश्यसि तदेवेति, पृच्छ्यं न त्वधुनाऽधिकम्। इत्युक्तेऽनेन सा गत्वा, पितुरेतन्न्यवेदयत्
।।१८०॥ मुदितो धनदेवाय, सोऽथ सन्मानपूर्वकम् । स्वर्विमानाभमावासं, धनं चोपस्करं ददौ
||१८१॥ तत्राऽस्थाद्धनदेवोऽथ, सह पल्ल्या नवोढया। भोगान् सस्नेहया स्वैरं, भुञ्जानः पुण्यदत्तदृक्
।।१८२ ।। कर्मभिर्व्यवसायाद्यै-र्लक्ष्मीमर्जति चाद्भुताम् । उदीर्णप्राच्यपुण्यानुभावात्पुण्यानुगा हि सा
॥१८३॥ काले कियत्यतिक्रान्ते, श्रीपुजे स्वर्गमीयुषि । भ्रातृणां स्नेहदौर्बल्यं, ज्ञात्वा जनकवेश्मनि यियासुः सङ्गता पत्या, श्रीमतीत्यथ दध्युषी। कीदृशो गृहवासोऽस्य? कीदृश्यौ च पुराप्रिये ? ||१८५।। युग्मम् ।। इति तदर्शनोत्कण्ठावती तं श्रीमती जगौ। स्वामिन् ! स्वपितुरावासं सकृद्दर्शयसे न किम्? ॥१८६ ।।
॥१८४।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180