SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 150 श्री मुनिसुन्दरसूरिविरचिता क्रमाक्रयाणकानां स, विधाय क्रयविक्रयौ। आगाद्रत्नपुरे नावोल्लंघ्य वारिनिधिं जवात् ||१७६ ।। निवेद्य श्रेष्ठिने सर्वं, धनदेवप्रियोदितम् । आर्पिपत्तं शुकं सोऽपि, स्वपुत्र्यै मुमुदे च सा ॥१७७॥ भर्तुः प्रसादं सा मन्यमाना तं रमयत्यलम्। दृष्ट्वा दवरकं पादे-ऽतुत्रुटद्विस्मिताऽन्यदा ॥१७८॥ धनदेवः स्वभावस्थ-स्ततोऽभूत्तं निरीक्ष्य सा। विस्मिता मुदिता चाख्यत् स्वामिन्! किमिदमद्भुतम् ? ॥१७९ ।। यत्पश्यसि तदेवेति, पृच्छ्यं न त्वधुनाऽधिकम्। इत्युक्तेऽनेन सा गत्वा, पितुरेतन्न्यवेदयत् ।।१८०॥ मुदितो धनदेवाय, सोऽथ सन्मानपूर्वकम् । स्वर्विमानाभमावासं, धनं चोपस्करं ददौ ||१८१॥ तत्राऽस्थाद्धनदेवोऽथ, सह पल्ल्या नवोढया। भोगान् सस्नेहया स्वैरं, भुञ्जानः पुण्यदत्तदृक् ।।१८२ ।। कर्मभिर्व्यवसायाद्यै-र्लक्ष्मीमर्जति चाद्भुताम् । उदीर्णप्राच्यपुण्यानुभावात्पुण्यानुगा हि सा ॥१८३॥ काले कियत्यतिक्रान्ते, श्रीपुजे स्वर्गमीयुषि । भ्रातृणां स्नेहदौर्बल्यं, ज्ञात्वा जनकवेश्मनि यियासुः सङ्गता पत्या, श्रीमतीत्यथ दध्युषी। कीदृशो गृहवासोऽस्य? कीदृश्यौ च पुराप्रिये ? ||१८५।। युग्मम् ।। इति तदर्शनोत्कण्ठावती तं श्रीमती जगौ। स्वामिन् ! स्वपितुरावासं सकृद्दर्शयसे न किम्? ॥१८६ ।। ॥१८४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy