________________
मदन-धनदेवकथा
149
॥१६५॥
॥१६६॥
॥१६७॥
॥१६८॥
॥१६९॥
अलब्ध्वा च प्रगे तेन, लिखितं श्लोकमैक्षत। अजानाच धियां धाम, तस्य वासपदादि सः पुर्यां हसन्त्यभिख्यायां, सूनुर्धनपतेरयम्। कथञ्चिद्धनदेवाह्वो, नाम्नाऽत्राऽगाजगाम च तदुदन्तमुदित्वैवं, रूदन्ती स्थापिता सुता। वरमाकारयिष्यामि, द्रागित्याश्वासनाकृते हसन्त्यां यान्तमन्येद्युः, सार्थवाहं निबुध्य सः । श्रेष्ठी सागरदत्ताहमर्थोपार्जनहेतवे आर्पिपद्धनदेवाय तस्य रात्र्या अलङ्कृतिम् । सन्दिष्टं च यथा पत्नी, संभाल्या द्रागिहागतेः ततः सागरदत्तोऽपि, पोतेनोल्लङ्घ्य वारिधिम्। हसन्त्यां प्राप्तवान् सद्यो, धनदेवगृहेऽगमत् तमदृष्ट्वा प्रिये तस्याऽप्राक्षीत्क्वाऽऽस्ते पतिर्नु वाम् ?। ताभ्यामूचे गतो देशान्तरे द्रव्यार्जनाय सः सोऽथाऽवादीदलङ्कार, श्रीपुज्जः प्राहिणोदिमम्। जामात्रे धनदेवाय, शीघ्रमाजूहवच्च तम् ऊचे ताभ्यामिदं साधु, धनदेवः प्रियां हि ताम्। द्रष्टुमत्युत्सुकोऽप्याशु, देशेऽगाद् गाढकार्यतः गच्छतोक्तं च तेनैति, कोऽपि रत्नपुराद्यदि। तद्धस्तेन शुकः पल्यै, प्रेष्यो ग्राह्यं तदर्पितम् इत्युदित्वा शुकस्ताभ्यां, तस्याऽर्पि स सपञ्जरः । आत्ता चालङ्कृतिः सोऽथोत्तारके कीरयुग्ययौ
॥१७०॥
॥१७१॥
॥१७२॥
||१७३॥
॥१७४॥
॥१७५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org