SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 148 श्री मुनिसुन्दरसूरिविरचिता ॥१५५।। यावत्तत्पाणिसंस्पर्शा-द्धनदेवः प्रबुध्यते। ददर्श तावदात्मानं, शुकीभूतं सविस्मयः ||१५४॥ दध्यौ चाऽग्रे प्रियां वीक्ष्य, कङ्कणच्छोटनं मम । विस्मृतं तेन तत्पाणी, वीक्ष्याऽसौ शङ्किता ध्रुवम् कथञ्चिन्नैशवृत्तान्तं, ज्ञात्वा कीरीचकार माम् । नास्यामीदृग्चरित्रायामसंभाव्यं हि किञ्चन ||१५६॥ धिग्मया हारितं नृत्वं, पशुभूतः करोमि किम् ?। ध्यात्वैवं दुःखितो भीत्या, यावदुड्डयते स च ||१५७।। करेणाऽऽक्रम्य तं तावत्, कोपाद् दुष्टा जगाद सा। रे! रे! ज्वरच्छलं कृत्वा, चरित्रं नौ विलोकसे? ||१५८ ।। युग्मम् ।। न तद्भवादृशां गम्यं, सहस्व छलजं फलम्। अथ तं पञ्जरे क्षिप्त्वा, गृहकार्येषु साऽलगत् प्रशंसन्ती कलां तस्यास्तथैवाऽन्याऽपि सम्मदात्। सोऽपि शोचति पश्यन् स्वं, गृहं परिजनादि च ॥१६०॥ अथ ते सच्छमत्कारं, पचन्त्यौ भर्जिकां तदा। शुकं नीत्वाऽस्त्रधारायां, न्यस्य भापयतश्च तम् ॥१६१॥ रे! शृणोषि छमत्कारान् ?, निहत्यैवं त्वमप्यथ । पक्ष्यसे सच्छमत्कारं, कदापीत्यादिभाषितैः ॥१६२॥ ताभ्यामित्यन्वहं नीयमानो जीवितसंशयम् । कथञ्चिद् दुःखितः कीरो, व्यतिक्रामति वासरान् ।।१६३॥ अथ रत्नपुरे श्रेष्ठी, श्रीपुञ्जो निर्गतं वरम्। अनायातं च विज्ञाय, सर्वत्राऽप्यगवेषयत् ॥१६४॥ ||१५९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy