________________
मदन- धनदेवकथा
श्लोकमेतं लिलेखाऽयं, श्रीमत्या वसनाञ्चले । कुङ्कुमेन ततः किञ्चित्कार्यमुद्दिश्य निर्ययौ
गतश्चते प्रिये वीक्ष्यारूढे ते सोऽप्यथ द्रुतम् । प्राग्वत्तत्कोटरे प्राप्तः, पत्न्योर्गमनशङ्कया
ततः स्त्रीजप्तमन्त्रेण, व्योम्नोत्पत्य द्रुतं ययौ । चूतोऽपि तद्गृहोद्याने, तत्र तस्थौ च पूर्ववत्
ततश्च धनदेवोऽपि, रहो निजगृहे ययौ शय्यायां प्राग्वदस्वाप्सी - न्निदद्रौ च पटावृतः
तत्प्रिये च गृहे प्राप्ते, निःशङ्के वीक्ष्य तं तथा। शयिते शय्ययोर्निद्रासुखं च क्षणमापतुः
प्रातरुत्थाय चाऽर्हाणि, गृहकर्माणि चक्रतुः । धनदेवोऽस्ति चाऽद्याऽपि निद्राणो रात्रिजागरात्
I
अथ निद्रावशात्तस्य, पाणिः प्रावरणाद्बहिः । दक्षिणो निरगाद्भाव्य -वशादाबद्धकङ्कणः
वीक्ष्य तं चकिता लघ्वी, प्रिया ज्येष्ठामदीदृशत् । साऽपि स्माहाऽऽर्यपुत्रो नु, वरोऽयमिति यत्वया अवादि तदभूत्सत्य-मावाभ्यां कथमप्यहो ! | रहस्तत्राऽयमागत्य, तामुपायंस्त कन्यकाम् तदनेनाऽवयोस्तादृग्, वृत्तान्तो बुबुधेऽखिलः । मनागपीति मा भैषीः, करिष्येऽत्र प्रतिक्रियाम् इत्युदित्वा प्रदायाऽथ, ग्रन्थीन् सप्ताभिमन्त्र्य च । बबन्ध धनदेवस्य, वामे दवरकं पदे
Jain Education International
For Personal & Private Use Only
।। १४३ ।।
।।१४४ ।।
।।१४५ ।।
।।१४६ ।।
।।१४७ ।।
।।१४८ ।।
।।१४९ ।।
।।१५० ।।
।।१५१ ।। युग्मम्।।
।।१५२ ।।
।। १५३ ।।
147
www.jainelibrary.org