________________
मदन-धनदेवकथा
151
|१८७।।
||१८८॥
॥१८९।।
॥१९०॥
||१९१॥
पितृश्वसुरयोर्गेहे, वासः श्लाघ्यो हि नृस्त्रियोः । व्याहरद्धनदेवोऽथ, ज्ञास्यते समयेऽप्यदः ततो धृतिमती साऽपि, तस्थौ भोगैकदत्तदृक् । पुनः कालान्तरेऽन्येधु-र्व्याहार्षीत्सा पतिं प्रति स्वामिस्त्रैधा मनुष्याः स्यु-र्जधन्योत्तममध्यमाः। श्वसुरस्वपितृस्वीय-गुणेभ्यः ख्यातिधारिणः तवाऽत्रस्थस्य तन्नाथ!, समृद्धिः श्वसुरोद्भवा। उत्तमत्वाय नैषा तु, तद्यावस्ते पितृहम् पल्या प्रोक्तमिति श्रुत्वा, धनदेवो जगाद ताम् । भद्रेऽद्यापि छमत्कारान्, भर्जिकायाः स्मरामि तान् पत्युरित्युक्तमाकर्ण्य, साऽप्राक्षीत्के नु ते प्रिय!?। आदितोऽपि स्ववृत्तान्तं सम्यक् सोऽप्यवदत्ततः श्रुत्वा तं श्रीमती हास्याऽवज्ञे विदधती जगौ। कियन्मात्रमिदं स्वामिन्!, मा भैषीरीदृशात्ततः तत्र नूनं भलिष्येऽहं, निःशङ्क स्वगृहं व्रज। मया सह न ते बाधा, भवित्री क्वाऽपि कर्हिचित् इति पत्नीगिरा दत्तावलम्बात्साहसं भजन्। आपृच्छ्य स्वजनान् सोऽगाद्धसन्ती सप्रियः क्रमात् विशन् स्वौकसि पत्नीभ्यां, तदवस्थोऽप्ययं कथम्। स्वं रूपं प्रापदित्यादि, ध्यायन्तीभ्यामदर्शि सः ततोऽभ्युत्तस्थतुस्ते तं, दर्शयन्त्यौ मुदं बहिः । कृत्वाऽऽचमनदानादि-प्रतिपत्तिं सगौरवम्
||१९२॥
॥१९३॥
॥१९४॥
|१९५।।
||१९६॥
||१९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org